SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २५० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा शुद्धम् अलेपकृतं शुद्धौदनं च, तच्च तदुपहृतं चेति शुद्धोपहृतम्, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति । तथा संसृष्टं नाम भोक्तुकामेन गृहीतं कूरादौ क्षिप्ते हस्त: क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहतम्, इदं चतुर्थेषणात्वेन भजनीयम् , 5 लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा सुद्धं च अलेवकडं अहवण सुद्धोदणो भवे सुद्धं ।। संसटें आउत्तं भोक्तुमारब्धमित्यर्थः लेवाडमलेवडं वा वि ॥ [व्यव० ९।३८२०] त्ति । इह च त्रये एकत्व-द्वि-त्रिसंयोगैः सप्ताभिग्रहवन्त: साधवो भवन्तीति ४ । अवगृहीतं नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि यदिति भक्तम्, चकारा: 10 समुच्चयार्थाः, अवगृह्णाति आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डैषणेति, एवं च वृद्धव्याख्या- परिवेषक: पिटिकाया: कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितम्-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितम्, तत: परिवेषको भणति-प्रसारय साधो ! पात्रम्, तत: साधुना प्रसारिते पात्रे क्षिप्तमोदनम्, इह च संयतप्रयोजने गृहस्थेन हस्त एव परिवर्तितो नान्यत् गमनादि कृतमिति 15 जघन्यमाहृतजातमिति, इह च व्यवहारभाष्यश्लोक: भुंजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ।। जहन्नोवहडं तं तु, हत्थस्स परियत्तणे ॥ [व्यव० ९।३८३८] त्ति । तथा यच्च परिवेषक: स्थानादविचलन् संहरति भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, श्लोकोऽत्र20 अह साहीरमाणं तु, वढ्तो परिवेषयन्नित्यर्थ: जो उ दायओ । दलेजाविचलिओ तत्तो, छट्ठा एसा वि एसणा ॥ [व्यव० ९।३८२९] इति । तथा यच्च भक्तमास्यके पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या-कूरमवह्लादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्तम्, ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेषं यद् भूय: पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती ___ 25 वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतम्, श्लोकोऽत्र १. ख्याता परि' जे१ ।। २. जघन्यमाहृतजातमिति जे१ मध्ये नास्ति । जघन्यतोहत' खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy