________________
२३७
[सू० १८०] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।
२३७ गणाचार्योऽप्यौत्सर्गिकगुणयुक्तत्वे एवम्सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो लद्धिमंतो य ॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं ॥ [पञ्चव० १३१५-१६] ति । 5 अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति ?, अत्रोच्यते, उक्तगुणानां मध्यात् अन्यतरगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासी, कथमन्यथाऽभिधीयते
जे यावि मंदि त्ति गुरुं विइत्ता, डहरे इमे अप्पसुए त्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, करेंति आसायण ते गुरूणं ॥ [दशवै० ९।१।२] ति । 10
अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा, समग्रगुणभावे तु समनुज्ञेति स्थितम् । अथवा स्वस्य मनोज्ञा: समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः, सह वा मनोज्ञैर्ज्ञानादिभिरिति समनोज्ञा: एकसाम्भोगिका: साधवः, कथं त्रिविधा इत्याहआचार्यतयेत्यादि, भिक्षु-क्षुल्लकादिभेदा: सन्तोऽपि न विवक्षिता:, त्रिस्थानकाधिकारादिति । एवं उवसंपय त्ति, एवमित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् 15 उपसंपत्तिरुपसंपत् ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरण-विस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्याय क्षमणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं चउवसंपया य तिविहा णाणे तह दंसणे चरित्ते य ।
20 दंसण-णाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ [आव० नि० ६९८, पञ्चा० ५८६] त्ति।
से यमाचार्योपसम्पद्, एवमुपाध्याय-गणिनोरपीति । एवं विजहणत्ति एवमित्याचार्यत्वादिभेदेन त्रिधैव विहानं परित्याग: तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्य-क्षमणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आह चनियगच्छादन्नम्मि उ सीयणदोसाइणा होइ [आव०नि० ७१८] त्ति । अथवा आचार्यो 25 ज्ञानाद्यर्थमुपसम्पन्नं यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् १. 'त्सर्गिक एवं खं० पा० जे२ ॥ २. वृत्त्याय जे१, २ ॥ ३. वृत्त्यक्षपणा' जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org