________________
[सू० १८०] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।
२३५ स्यादिति २, प्रेरणाया अविषये उपेक्षणाऽसामर्थ्य च ततः स्थानादुत्थाय आय त्ति आत्मना एकान्तं विजनम् अन्तं भूविभागमवक्रामेत् गच्छेत् ३।
निर्ग्रन्थस्य ग्लायत: अशक्नुवतः, तृड्वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातम् । तओ त्ति तिस्रः वियड त्ति पानकाहारः, तस्य दत्तय: एकप्रक्षेपदानरूपाः, प्रतिग्रहीतुम् आश्रयितुं वेदनोपशमायेति । उत्कर्षः प्रकर्षः, 5 तद्योगादुत्कर्षा, उत्कर्षतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामानं वा लभते। अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकाञ्जिका-ऽवश्रावणादेः द्राक्षापानकादेर्वा प्रथमा १, षष्टिकादिकाञ्जिकादेमध्यमा २, तृणधान्यकाञ्जिकादेष्णोदकस्य वा जघन्येति । देश-काल-स्वरुचिविशेषाद्वोत्कर्षादि नेयमिति। 10 ___ साहम्मियं ति समानेन धर्मेण चरतीति साधर्मिकस्तम्, सम् एकत्र भोगो भोजनं सम्भोगः साधूनां समानसामाचारीकतया परस्परमुपध्यादिदान-ग्रहणसंव्यवहारलक्षणः, स विद्यते यस्य स सम्भोगिकः, तम्, विसम्भोगो दानादिभिरसंव्यवहारः, स यस्यास्ति स विसम्भोगिकः, तं कुर्वन् नातिक्रामति न लघयत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदान- 15 ग्रहणादिकामसामाचारीम् । तथा सविस्स त्ति श्रद्धा श्रद्धानं यस्मिन् अस्ति स श्राद्धः श्रद्धेयवचन: कोऽप्यन्य: साधुस्तस्य वचनमिति गम्यते निशम्य अवधार्य । तथा तच्चं ति एकं द्वितीयं यावत् तृतीयं मोसं ति मृषावादम् अकल्प्यग्रहण-पार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, आवर्त्तते निवर्त्तते, तमालोचयतीत्यर्थ:. अनाभोगतस्तस्य भावात्, प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो 20 आवर्त्तते तं नालोचयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्याऽदानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वन्नातिक्रामतीति प्रकृतम्, उक्तं च
१. "समाचा' खं० पा० ।। २. समाचा' खं० पा० जे२।। ३. अथवा तच्चं जे१ ।। ४. अकल्पग्र पा० जे२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org