SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ [सू० १७५] तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । २२९ पन्नवेंति एवं परूवेंति-कहनं समणाणं निग्गंथाणं किरिया कजति ? तत्थ जा सा कडा कज्जति नो तं पुच्छंति, तत्थ जा सा कडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं पुच्छंति, से एवं वत्तव्वं सिया-अकिच्चं दुक्खं अफुसं दुक्खं अकज्जमाणकडं दुक्खं अकट्ट अकट्ट पाणा भूता जीवा सत्ता वेयणं 5 वेदेति त्ति वत्तव्वं । जेते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवे पन्नवेमि एवं परूवेमि-किच्चं दुक्खं फुसं दुक्खं कज्जमाणकडं दुक्खं कटु कटु पाणा भूया जीवा सत्ता वेयणं वेयंति त्ति वत्तव्वं सिया। ॥ तइयट्ठाणस्स बीओ उद्देसओ समत्तो ॥ [टी०] जीवेन कृतं दुःखमित्युक्तम्, अधुना परमतं निरस्यैतदेव समर्थयन्नाह- 10 अन्नउत्थीत्यादि प्रायः स्पष्टम्, किन्तु अन्ययूथिकाः इह तापसा विभङ्गज्ञानवन्तः, एवं वक्ष्यमाणप्रकारमाख्यान्ति सामान्यतो भाषन्ते विशेषतः, क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किं तदित्याह कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां ‘मते' इति शेषः, क्रियते इति क्रिया कर्म, सा 15 क्रियते भवति दुःखायेति विवक्षेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा-कृता क्रियते विहितं सत् कर्म दुःखाय भवतीत्यर्थः १, एवं कृता न क्रियते २, अकृता क्रियते ३, अकृता न क्रियते ४ इति, एतेष्वनेन प्रश्न यो भङ्गः प्रष्ट मिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह-तत्थ त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथम द्वितीयं चतुर्थं च न पृच्छन्ति, एतत्त्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि- 20 याऽसौ कृता क्रियते यत्तत् कर्म कृतं सद्भवति नो तां ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, तत्र याऽसौ कृता नो क्रियते इति तेषु भङ्गकेषु मध्ये यत्तत् कर्म कृतं न भवति नो तां पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्, तथाहि- कृतं चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति १. क्रिया न भवति दःखायेति विवक्षिति प्रश्नः खं० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy