SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २३० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात्, तत्र तेषु याऽसावकृता यत्तदकृतं कर्म नो क्रियते न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकेऽवतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह- तत्र 5 याऽसावकृता क्रियते यत्तदकृतं पूर्वमविहितं कर्म भवति दु:खाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दु:खानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्राय:- यदि निर्ग्रन्था अपि अकृतमेव कर्म दु:खाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुठु अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृतीयमेव पृच्छन्तीति भावः । से त्ति अथ 10 तेषामकृतकभ्युिपगमवतामेवं वक्ष्यमाणप्रकारं वक्तव्यम् उल्लापः स्यात्, त एव वा एवमाख्यान्ति परान् प्रति यदुत-अथैवं वक्तव्यं प्ररूपणीयं तत्त्ववादिनां स्यात् भवेद्, अकृते सति कर्मणि दुःखभावात् अकृत्यम् अकरणीयमबन्धनीयम् अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किम् ? दुक्खं दुःखहेतुत्वात् कर्म, अफुसं ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च वर्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं 15 क्रियमाणकृतं द्वन्द्वैकत्वं कर्मधारयो वा, न क्रियमाणकृतमक्रियमाणकृतम्, किं तत् ? दुःखं कर्म । अकिच्चं दुक्खमित्यादिपदत्रयं तत्थ जा सा अकडा कज्जइ तं पुच्छंतीत्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा द्वीन्द्रियादयः भूता: तरवो जीवाः पञ्चेन्द्रियाः सत्त्वाः पृथिव्यादयः, यथोक्तम्20 प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरवः स्मृताः । जीवा: पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वाः प्रकीर्तिताः ॥। ] इति । वेदनां पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति यदुत एवं वक्तव्यं स्यादिति प्रक्रमः । एवमन्यतीर्थिकमतमुपदर्श्य निराकुर्वनाह– जेते इत्यादि, य एते अन्यतीर्थिका एवम् 25 उक्तप्रकारमाहंसु त्ति उक्तवन्तः मिथ्या असम्यक् ते अन्यतीर्थिका एवमुक्तवत् आहंसु १. सुष्ठ शोभनं अस्म पा० जे२ ॥ २. अथैवं च वक्त जे१ ॥ ३. अकृत्वा कर्म प्राणा जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy