________________
२२५
10
[सू० १७१]
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि
दुपएसादि दुरुत्तर एगपएसा अणुत्तरा चेव ।। चउरो ४ चउरो य दिसा चउरादि अणुत्तरा दुन्नि २ ॥१॥ सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि । मुत्तावली उ चउरो दो चेव य हुति रुयगनिभा ॥२॥ [आचाराङ्गनि० ४४,४६] 5 नामानि चासाम्इंद १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्वा ६ । सोमा ७ ईसाणा वि य ८ विमला य ९ तमा १० य बोद्धव्वा ॥ [आचाराङ्गनि० ४३] तापः सविता, तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा च अनियता, यत उक्तम्जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं ॥ [विशेषाव० २७०१] तथा प्रज्ञापकस्य आचार्यादेर्दिक् प्रज्ञापकदिक्, सा चैवम्पन्नवओ जयभिमुहो सा पुव्वा सेसिया पयाहिणओ। तस्सेवऽणुगंतव्वा अग्गेयाई दिसा नियमा ॥ [ ] भावदिक् चाष्टादशविधापुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ऽग्ग ७ पोरबीया य ८ ।। बि ९ ति १० चउ ११ पंचिंदियतिरिय १२ नारगा १३ देवसंघाया १४ ॥ संमुच्छिम १५ कम्मा १६ ऽकम्मभूमगनरा १७ तहंतरद्दीवा १८ । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ॥ [विशेषाव० २७०३-४] इति ।
इह च क्षेत्र-ताप-प्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव 20 दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात्, शेषपदेषु च विदिशामविवक्षितत्वात्, यतोऽत्रैव वक्ष्यति- छहिं दिसाहिं जीवाणं गई पवत्तई [सू०४९९] त्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्निव्वाघाएणं नियमा छद्दिसिं [प्रज्ञापना० २८।१८०९] ति, तत्र तिहिं दिसाहिं ति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येयेति, गतिः प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र 25 गमनम्, एवमिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युत्क्रान्ति: उत्पत्तिः, आहारः प्रतीतः, वृद्धिः शरीरस्य वर्द्धनम्,
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org