SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २२४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे १ अपरित्ता २ नोपरित्ता नोअपरित्ता ३' । तत्र परीत्ताः प्रत्येकशरीराः, अपरीत्ताः साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, सुहुम त्ति ‘तिविहा सव्वजीवा पं० तं०-सुहुमा बायरा नोसुहुमा नोबायरा', एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति । 5 [सू० १७१] तिविधा लोगट्ठिती पन्नत्ता, तंजहा-आगासपतिट्ठिते वाते, वातपतिट्ठिए उदही, उदहिपतिट्टिता पुढवी । । तओ दिसाओ पन्नत्ताओ, तंजहा-उड्ढा, अहा, तिरिया १। तिहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा-उडाते, अहाते, तिरियाते २। एवं आगती ३, वक्कंती ४, आहारे ५, वुड्डी ६, णिवुड्डी ७, गतिपरियाते ८, समुग्घाते ९, 10 कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३॥ तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तंजहा-उड्डाते अहाते तिरियाते १४। एवं पंचेंदियतिरिक्खजोणियाणं, एवं मणुस्साण वि । [टी०] सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह-तिविहेत्यादि कण्ठ्यम्, किन्तु लोकस्थिति: लोकव्यवस्था, आकाशं व्योम, तत्र प्रतिष्ठितो 15 व्यवस्थित आकाशप्रतिष्ठितो वातो घनवात- तनुवातलक्षण: सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात्, उदधिः घनोदधिः, पृथिवी तमस्तमःप्रभादिकेति । ___ उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् तओ दिसेत्यादि सूत्राणि चतुर्दशाह, सुगमानि च, नवरं दिश्यते व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक्, सा च नामादिभेदेन सप्तधा, आह च नामं १ ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६। सत्तमिया भावदिसा ७ सा होअट्ठारसविहा उ ॥ [आव०नि० ८०९] तत्र द्रव्यस्य पुद्गलस्कन्धादेर्दिक द्रव्यदिक्, क्षेत्रस्य आकाशस्य दिक् क्षेत्रदिक्, सा चैवम् अट्ठपएसो रुयगो तिरियंलोयस्स मज्झयारम्मि । ___25 एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ [आचाराङ्गनि० ४२] तत्र पूर्वाद्या महादिशश्चतम्रोऽपि द्विप्रदेशादिका व्युत्तराः, अनुदिशस्तु एकप्रदेशा 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy