________________
[सू० १६९-१७०] तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः ।
२२३ सपच्चक्खाणपोसहोववासस्स पसत्था भवंति, तजंहा-अस्सिं लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाती पसत्था भवति ।
[टी०] तहेव ठाणा य त्ति यत् सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह- तओ ठाणेत्यादि, त्रीणि स्थानानि निःशीलस्य सामान्येन शुभस्वभाववर्जितस्य, विशेषतः पुनः निव्रतस्य प्राणातिपाताद्यनिवृत्तस्य, निर्गुणस्योत्तरगुणापेक्षया, निर्मर्यादस्य लोक- 5 कुलाद्यपेक्षया, निष्प्रत्याख्यान-पौषधोपवासस्य पौरुष्यादिनियम-पर्वोपवासरहितस्य, गर्हितानि जुगुप्सितानि भवन्ति, तद्यथा-अस्सिं ति विभक्तिपरिणामादयं लोकः इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपात: अकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, उपपातो देव-नारकाणाम् तत्त्वार्थ० २/३५] इति वचनात्, स गर्हितो भवति किल्बिषिका-ऽऽभियोग्यादिरूपतयेति, 10 आजाति: तस्माच्च्युतस्योवृत्तस्य वा कुमानुषत्व-तिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्ययमाह- तओ इत्यादि निगदसिद्धम् ।
[सू० १७०] तिविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-इत्थी, पुरिसा, नपुंसगा।
तिविधा सव्वजीवा पन्नत्ता, तंजहा-सम्मद्दिट्ठी, मिच्छद्दिट्ठी, 15 सम्मामिच्छद्दिट्ठी।
अहवा तिविधा सव्वजीवा पन्नत्ता, तंजहा-पज्जत्तगा, अपजत्तगा, णोपज्जत्तगा णोअपज्जत्तगा । एवं
सम्मद्दिट्ठि परित्ता, पज्जत्तगा सुहुम सनि भविया य ।
एतानि च गर्हित-प्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह- 20 तिविहेत्यादि सूत्रसिद्धम् ।
जीवाधिकारात् सर्वजीवांस्त्रिस्थानकावतारेण षड्भिः सूत्रैराह- तिविहेत्यादि सुबोधम, नवरं नोपज्जत्त त्ति नोपर्याप्तका नोअपर्याप्तकाः सिद्धाः । एवमिति पूर्वक्रमेण सम्मद्दिट्टीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्ग्रहार्थमिति। 'तिविहा सव्वजीवा पं० तं० परित्ता १. 'नारक-देवानामुपपातः' इति तत्त्वार्थसूत्रे २।३५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org