________________
२२६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे निवृद्धिः शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो वेदनादिलक्षणः, कालसंयोगो वर्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेन अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानाम्
अवध्यादिनैवाभिगमो जीवाभिगम इति । तिहिं दिसाहिं जीवाणं अजीवाभिगमे 5 पन्नत्ते, तं०-उड्डाए ३ एवं सर्वत्राभिलपनीयमिति दर्शनार्थं परिपूर्णान्त्यसूत्राभिधानमिति।
एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह- एवमित्यादि, यथा सामान्यसूत्रेषु
गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यङ्-मनुष्येष्विति भावः, 10 एवं चैतानि षड्विंशतिः सूत्राणि भवन्तीति । अथैषां नारकादिषु कथमसम्भव इति ?,
उच्यते, नारकादीनां द्वाविंशतेर्जीवविशेषाणां नारक-देवेषुत्पादाभावाद धोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शन-ज्ञान-जीवा-ऽजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव, भवप्रत्ययावधिपक्षे तु नारक
ज्योतिष्कास्तिर्यगवधयो भवनपति-व्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय 15 एकेन्द्रिय-विकलेन्द्रियाणां त्ववधिर्नास्त्येवेति ।
[सू० १७२] तिविधा तसा पन्नत्ता, तंजहा-तेउकाइया, वाउकाइया, उराला तसा पाणा ।
तिविधा थावरा पन्नत्ता, तंजहा-पुढ विकाइया, आउकाइया, वणस्सतिकाइया । 20 [टी०] यथोक्तानि च गत्यादिपदानि सानामेव सम्भवन्तीति सम्बन्धात्
त्रसान्निरूपयन्नाह- तिविहेत्यादि स्पष्टम्, किन्तु त्रस्यन्तीति त्रसा: चलनधर्माणः । तत्र तेजो-वायवो गतियोगात् त्रसाः । उदाराः स्थूलाः, वसा इति त्रसनामकर्मोदयवर्त्तित्वात्, प्राणा इति व्यक्तोच्छ्वासादिप्राणयोगात् द्वीन्द्रियादयस्तेऽपि
गतियोगादेव त्रसा इति । उक्तास्त्रसाः, तद्विपर्ययमाह तिविहेत्यादि, स्थानशीलत्वात् 25 स्थावरनामकर्मोदयाच्च स्थावरा:, शेष व्यक्तमेवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org