________________
२१९
[सू० १६७] तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । तदभावलक्षणा संज्ञानोसंज्ञे, तयोरुपयुक्ता इति विग्रहः, पूर्वहस्वता प्राकृतत्वादिति, तत्र बकुशः शरीरोपकरणविभूषादिना शबलचारित्रपटः, प्रतिषेवणया मूलगुणादिविषयया कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति ।।
[सू० १६७] तओ सेहभूमीओ पन्नत्ताओ, तंजहा-उक्कोसा, मज्झिमा, जहन्ना। उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तरातिदिया । 5
ततो थेरभूमीओ पन्नत्ताओ, तंजहा-जातिथेरे, सुतथेरे, परियायथेरे। सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाण-समवायधरे णं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे ।
[टी०] निर्ग्रन्थाश्चारोपितव्रताः केचिद् भवन्तीति व्रतारोपणकालविशेषानाह- तओ सेहेत्यादि सुगमम्, किन्तु सेह त्ति षिधू संराद्धौ [पा०धा० ११९२] इति वचनात् सेध्यते 10 निष्पाद्यते यः स सेधः, शिक्षां वाऽधीत इति शैक्षः, तस्य भूमिका महाव्रतानारोपणकाललक्षणाः अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः-उत्कृष्टतः षड्भिर्मासैरुत्थाप्यते न तानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीतशिक्षत्वादिति, उक्तं च
सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राइंदि सत्त चउमासिगा य छम्मासिआ चेव ॥ [व्यव० १०।४६०४] इति । आसु चायं व्यवहारोक्तो विभाग:पुव्वोवट्ठपुराणे करणजयट्ठा जहन्निया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं च ॥ एमेव य मज्झिमगा अणहिज्जते असद्दहते य । भावियमेहाविस्स वि, करणजयट्ठा य मज्झिमगा ॥ [व्यव० १०।४६०५-६] इति ॥
शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह- तओ थेर इत्यादि कण्ठ्यम्, नवरं स्थविरो वृद्धः, तस्य भूमय: पदव्यः स्थविरभूमय इति, जाति: जन्म, श्रुतम् आगमः, पर्याय: प्रव्रज्या, तैः स्थविरा वृद्धा ये ते तथोक्ता इति, इह च भूमिका-भूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव 25 १. भूमयो महाव्रता पा० जे२ ।। २. महाव्रतारोपण' जे१ ॥ ३. क्रम्यते जे१ ॥ ४. थेरेत्यादि जे२ ॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org