SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २१८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पव्वयणं पव्वज्जा पावाओ सुद्धचरणजोगेसु ।। इय मोक्खं पइ गमणं कारण कज्जोवयाराओ ॥ [पञ्चव० ५] इति । इहलोकप्रतिबद्धा ऐहलौकिकभोजनादिकार्यार्थिनाम्, परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनाम्, द्विधाप्रतिबद्धा इहलोक-परलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः अग्रतः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धात्, मार्गत: पृष्ठतः स्वजनादिषु स्नेहाच्छेदात्, तृतीया द्विधाऽपीति । तुयावइत्त त्ति तुद व्यथने [पा०धा० १२८२] इति वचनात् तोदयित्वा तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, पुयावइत्त त्ति, प्लुङ् गतौ [पा०धा० ९५८] इति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते 10 सा तथेति, बुयावइत्ता संभाष्य गौतमेन कर्षकवदिति । अवपातः सेवा सद्गुरूणाम्, ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन धर्मदेशनेन आख्यातस्य वा प्रव्रजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतः, तस्माद् या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा यथा । 15 [सू० १६६] तओ णियंठा णोसण्णोवउत्ता पन्नत्ता, तंजहा-पुलाए, णियंठे, सिणाते ११ ततो णियंठा सन्न-णोसण्णोवउत्ता पन्नत्ता, तंजहा-बउसे, पडिसेवणाकुसीले, कसायकुसीले २॥ [टी०] उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह- तओ इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्ग्रन्थाः संयताः, नो नैव संज्ञायाम् 20 आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणा-ऽनागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थः उपशान्तमोहः क्षीणमोहो वेति, स्नातको घातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः । तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात्, _25 तथा चाह- सन्न-नोसण्णोवउत्त त्ति, संज्ञा च आहारादिविषया नोसंज्ञा च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy