________________
२१७
[सू० १६४-१६५] तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः ।। उप्पाडेज्जा' इत्यादि। यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह- तओ वयेत्यादि स्फुटम्, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा बाल-मध्यम-वृद्धत्वभेदादिति, वयोलक्षणं चेदम्
आ षोडशाद्भवेद्बालो यावत् क्षीरान्नवर्त्तकः । मध्यम: सप्ततिं यावत् परतो वृद्ध उच्यते ॥ [ ] शेषं प्राग्वत् । [सू० १६४] तिविधा बोधी पन्नत्ता, तंजहा-णाणबोधी, दंसणबोधी, चरित्तबोधी १। तिविहा बुद्धा पन्नत्ता, तंजहा-णाणबुद्धा, दंसणबुद्धा, चरित्तबुद्धा २। एवं मोहे ३ मूढा ४॥
[टी०] उक्तानेव धर्मविशेषांत्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह- तिविहेत्यादि सुबोधम्, किन्तु बोधिः सम्यग्बोधः, 10 इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा । बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, एवं मोहे मूढ त्ति बोधिवद् बुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि- ‘तिविहे मोहे पण्णत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढे' त्यादि ।
[सू० १६५] तिविहा पव्वजा पन्नत्ता, तंजहा-इहलोगपडिबद्धा, परलोग- 15 पडिबद्धा, दुहतो पडिबद्धा १।
तिविहा पव्वजा पन्नत्ता, तंजहा-पुरतो पडिबद्धा, मग्गतो पडिबद्धा, दुहओ पडिबद्धा २॥
तिविधा पव्वज्जा पन्नत्ता, तंजहा-तुयावइत्ता, पुयावइत्ता, बुआवइत्ता ३॥ तिविहा पव्वज्जा पन्नत्ता, तंजहा-ओवातपव्वज्जा, अक्खातपव्वज्जा, 20 संगारपव्वजा ४।
[टी०] चारित्रबुद्धाः प्रागभिहिताः, ते च प्रव्रज्यायां सत्याम्, अतस्तां भेदतो निरूपयन्नाह- तिविहेत्यादि सूत्रचतुष्टयं सुगमम्, केवलं प्रव्रजनं गमनं पापाच्चरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तं च
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org