SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २१६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चंडा, जाया । जहा चमरस्स एवं जाव अग्गमहिसीणं । एवं जाव अच्चुतस्स लोगपालाणं । [टी०] लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां चमरस्सेत्यादिना अच्चुयलोगवालाणमित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति, सुगमश्चायम्, नवरम् 5 असुरिंदस्सेत्यादौ इन्द्र ऐश्वर्ययोगात् राजा तु राजनादिति, परिषत् परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्र ये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात् प्रयोजनेष्वाहूता एवागच्छन्ति साभ्यन्तरा परिषत्, ये त्वाहूता अनाहूताश्चागच्छन्ति सा मध्यमा, ये त्वनाहूता अप्यागच्छन्ति सा बाह्येति, तथा यया सह प्रयोजनं पर्यालोचयति साऽऽद्या, यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया, यस्यास्तु तत् प्रवर्णयति 10 साऽन्त्येति। _ [सू० १६३] ततो जामा पन्नत्ता, तंजहा-पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते, तंजहापढमे जामे, मज्झिमे जामे, पच्छिमे जामे । एवं जाव केवलनाणं उप्पाडेज्जा पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । 15 ततो वया पन्नत्ता, तंजहा-पढमे वते, मज्झिमे वते, पच्छिमे वते । तिहिं वतेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-पढमे वते, मज्झिमे वते, पच्छिमे वते, एसो चेव गमो णेयव्वो जाव केवलनाणं ति। [टी०] अनन्तरं परिषदुत्पन्नदेवाः प्ररूपिताः, देवत्वं च कुतोऽपि धर्मात्, तत्प्रतिपत्तिश्च कालविशेषे भवतीति कालविशेषनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह- तओ 20 जामेत्यादि स्पष्टम्, केवलं यामो रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः पूर्वरात्र-मध्यरात्रा-ऽपररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विह चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, एवं जाव त्ति करणादिदं दृश्यम् 'केवलं बोहिं बुज्झेज्जा, मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं 25 बंभचेरवासमावसेज्जा, एवं संजमेणं संजमेज्जा, संवरेणं संवरेज्जा, आभिणिबोहियनाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy