________________
[सू० १५९-१६०]
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
सुगमम्, केवलं राजानः प्रतीताः परित्यक्तकामभोगाः सर्व्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयम्, सेनापतयः सैन्यनायकाः, प्रशास्तारो लेखाचार्यादयः, धर्मशास्त्रपाठकाः इति क्वचित् ।
[सू० १५९ ] बंभलोग - लंतएसु णं कप्पेसु विमाणा तिवण्णा पन्नत्ता, तंजहा - किण्हा, नीला, लोहिता
२१३
आणय-पाणया-ऽऽरण - ऽच्चुतेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं तिणि रयणीओ उड्डउच्चत्तेणं पण्णत्ता ।
[टी०] अनन्तरोक्तसर्वार्थसिद्धविमानसाधर्म्याद्विमानान्तरनिरूपणायाह- बंभेत्यादि, इह च किण्हा नीला लोहिय त्ति पुस्तकेष्वेवं त्रैविध्यं दृश्यते, स्थानान्तरे च लोहितपीत - शुक्लत्वेनेति, यत उक्तम्
सोहम्मे पंचवन्ना एक्कगहाणी य जा सहस्सारो ।
दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥ [ बृहत्सं० १३२] ति ।
अनन्तरं विमानान्युक्तानि तानि च देवशरीराश्रया इति देवशरीरमानं त्रिस्थानकानुपात्याह– आणयेत्यादि, भवं जन्मापि यावद्धार्यन्ते भवं वा देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थं चेदम्, तस्य लक्षप्रमाणत्वात्, उक्कोसेणं ति उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गुलासङ्ख्येयभागमात्रत्वादिति शेषं कण्ठ्यमिति ।
[सू० १६०] तओ पन्नत्तीओ कालेणं अधिजंति, तंजहा - चंदपन्नत्ती, सूरपन्नत्ती, दीवसागरपन्नत्ती ।
|| तिट्ठाणस्स पढमओ उद्देसओ समत्तो ॥
[टी०] अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता, तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह- तओ इत्यादि, कालेन प्रथम- पश्चिमपौरुषीलक्षणेन हेतुभूतेनाऽधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् ।
॥ इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः ||
Jain Education International
"
१. " सेणावई पसत्थारं रायाणं देवयाणं च || [ आव० नि० ११०५] प्रशास्तारं प्रकर्षेण शास्ता प्रशास्ता, तं धर्मपाठकादिलक्षणम् " - आवश्यकसूत्रस्य द्वितीयेऽध्ययने हारिभद्र्यां वृत्तौ ॥
For Private & Personal Use Only
5
10
15
20
25
www.jainelibrary.org