________________
२१४
[अथ द्वितीय उद्देशकः] [सू० १६१] तिविहे लोगे पन्नत्ते, तंजहा-णामलोगे, ठवणालोगे, दव्वलोगे। तिविधे लोगे पन्नत्ते, तंजहा-णाणलोगे, दंसणलोगे, चरित्तलोगे ।
तिविधे लोगे पन्नत्ते, तंजहा-उड्ढलोगे, अहोलोगे, तिरियलोगे । 5 [टी०] व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य
चायमभिसम्बन्धः- प्रथमोद्देशके जीवधर्माः प्राय उक्ताः, इहापि प्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम्- तिविहे इत्यादि । अस्य चायमभिसम्बन्धःअनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य
लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या- लोक्यते अवलोक्यते 10 केवलालोकेनेति लोकः, नाम-स्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरं
ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च
जीवमजीवे रूवमरूवी सपएस अप्पएसे य ।
जाणाहि दव्वलोयं णिच्चमणिच्चं च जं दव्वं ॥ [आव०भा० १९५] ति । 15 भावलोकं त्रिधाऽऽह-तिविहे इत्यादि, भावलोको द्विविधः- आगमतो नोआगमतश्च,
तत्रागमतो लोकपर्यालोचनोपयोगः तदुपयोगानन्यत्वात् पुरुषो वा, नोआगमतस्तु सूत्रोक्तो ज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव केवलो नाप्यनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य
क्षायिक-क्षायोपशमिकभावरूपत्वात्, क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, 20 उक्तं च
ओदइय उवसमिए य खइए य तहा खओवसमिए य । परिणाम सन्निवाए य छव्विहो भावलोगो उ ॥ [आव०भा० २००] त्ति । एवं दर्शन-चारित्रलोकावपीति ।
अथ क्षेत्रलोकं त्रिधाऽऽह-तिविहे इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे 25 मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि
१. द्धस्या जे१,२, ।। २. केवलावलोके° पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org