________________
२११
[सू० १५६-१५७] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । समयक्खेत्ते, ईसिपब्भारा पुढवी २।
[सू० १५७] तओ समुद्दा पगतीते उदगरसेणं पन्नत्ता, तंजहा-कालोदे, पुक्खरोदे, सयंभुरमणे ३॥ __तओ समुद्दा बहुमच्छ-कच्छभाइण्णा पन्नत्ता, तंजहा-लवणे, कालोदे, सयंभुरमणे ४।
5 [टी०] नरकपृथिवीनां क्षेत्रस्वभावानां प्राक् स्वरूपमुक्तम्, अथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह-तओ इत्यादि, त्रीणि लोके समानि तुल्यानि योजनलक्षप्रमाणत्वात्, न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह- सपक्खिमित्यादि, पक्षाणां दक्षिण-वामादिपार्थानां सदृशता समता सपक्षमित्यव्ययीभावः, तेन समपार्श्वतया 10 समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां विदिशां सदृशता सप्रतिदिक् तेन, समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठान: सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीप: सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुत्तराणां मध्यममिति ।
सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षाणि, समय: कालः तत्सत्तोपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद् अल्पो 15 योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सेषत्प्राग्भाराऽष्ट मपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, तथाहि
पढमाऽसीइसहस्सा बत्तीसा अट्ठवीस वीसा य ।। अट्ठार सोलस य अट्ठ सहस्स लक्खोवरिं कुज्जा ॥ [बृहत्सं० २४१] इति । विष्कम्भस्तु तासां क्रमेणैकाद्याः सप्तान्ता रज्जव इति । अथवेषत्प्राग्भारा मनागवनतत्वादिति ।
प्रकृत्या स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीय-तृतीया-ऽन्तिमाः। प्रथम-द्वितीया-ऽन्तिमाः समुद्रा बहुजलचराः, अन्ये त्वल्पजलचरा इति, उक्तं च१. प्राग्रूपमुक्त जे१,२, पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org