________________
[सू० १४३]
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः।। दुप्पडियारं भवति । अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति । __ [३] केति तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं सोच्चा निस्सम्म कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु 5 देवत्ताए उववन्ने, तते णं से देवे तं धम्मायरियं दब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेजा, कंतारातो वा णिक्वंतारं करेजा, दीहकालिएणं वा रोगातंकेण अभिभूतं समाणं विमोएजा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति । अधे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्मातो भट्टं समाणं भुजो वि केवलिपण्णत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति, तेणामेव 10 तस्स धम्मायरियस्स सुप्पडियारं भवति ।
[टी०] अथ किमर्थं भदन्त ! ते इहागच्छन्तीति ? उच्यते, अर्हतां धर्माचार्यतया महोपकारित्वात् पूजाद्यर्थम्, अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः, यतः- तिण्हं त्रयाणां दुःखेन कृच्छ्रेण प्रतिक्रियते कृतोपकारेण पुंसा प्रत्युपक्रियत इति खेल्प्रत्यये सति दुष्प्रतिकरं प्रत्युपकर्तुमशक्यमिति यावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो 15 वा हे श्रमणायुष्मन्निति भगवता शिष्यः सम्बोधितः । अम्बया मात्रा सह पिता जनक अम्बापिता, तस्येत्येकं स्थानम्, जनकत्वेनैकत्वविवक्षणात् । तथा भट्टिस्स त्ति भर्तुः पोषकस्य स्वामिन इत्यर्थ इति द्वितीयम् । धर्मदाता आचार्यो धर्माचार्यः, तस्येति तृतीयम् । आह चदुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहाऽमुत्र च सुदुष्करतरप्रतीकारः ॥ [प्रशम० ७१] इति । तत्र जनकदुष्प्रतिकार्यतामाह- संपाओ त्ति प्रातः प्रभातम्, तेन समं सम्प्रातः सम्प्रातरपि च प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य १-२. सुपडियरं क० ॥ ३. “ईषद्-दुः-सुषु कृच्छा-ऽकृच्छ्रार्थेषु खल् ॥” - पा० ३।३।१२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org