SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २०० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रतिप्रभातमित्यर्थः, कश्चिदिति कुलीन एव, न तु सर्वोऽपि पुरुषो मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात्, शतं पाकानाम् ओषधिक्काथानां पाके यस्य १, ओषधिशतेन वा सह पच्यते यत् २, शतकृत्वो वा पाको यस्य ३, शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम्, अब्भंगेत्ता 5 अभ्यङ्गं कृत्वा गन्धट्टएणं ति गन्धाट्टकेन गन्धद्रव्यक्षोदेन उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैः गन्धोदकोष्णोदकशीतोदकैः मज्जयित्वा स्नापयित्वा, मनोज्ञं कलमौदनादि, स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति, शुद्धं भक्तदोषवर्जितम्, स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लो कप्रतीतैर्व्यञ्जनैः 10 शालनकैस्तक्रादिभिर्वा आकुलं सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदा:सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ।। होइ रसालू व तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ ।। 15 अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो ॥ [ ] मांसत्रयं जलजादिसत्कं, जूषो मुद्ग-तन्दुल-जीरक-कटुभाण्डादिरसः, भक्ष्याणि खण्डखाद्यादीनि, गुललावणिका गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येक एव पदम्, हरितकं जीरकादेः, डाको वस्तुलादिभर्जिका, रसालू मज्जिका, तल्लक्षणमिदम्20 दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा। दस खण्डगुलपलाई एस रसालू णिवइजोग ॥ [ ] त्ति । पानं सुरादि, पानीयं जलम्, पानकं द्राक्षापानकादि, शाकः तक्रसिद्ध इति । यावान् जीवो यावज्जीवं यावत्प्राणधारणं पृष्ठौ स्कन्धे अवतंस इवाऽवतंस: शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतं सिका, तया पृष्ठ्यवतंसिकया परिवहेत्, 25 पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्य अम्बापितुर्दुःप्रतिकरम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, आह च१. सागो जे१ विना ।। २. शाको जे१ विना ।। ३. पष्ठारो जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy