SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [सू० १४१] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । इति व्यन्तरसूत्रे संक्लिष्टा वाच्या:, अत एवोक्तं वाणमंतरेत्यादि । वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोक्तम्, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति । [सू० १४१] तिहिं ठाणेहिं तारारूवे चलेज्जा, तंजहा - विकुव्वमाणे वा, परियारेमाणे वा, ठाणातो वा ठाणं संकममाणे तारारूवे चलेज्जा । १९५ तिहिं ठाणेहिं देवे विजुतारं करेजा, तंजहा - विकुव्वमाणे वा, परियारेमाणे वा, तहारूवस्स समणस्स वा माहणस्स वा इहिं जुतिं जसं बलं वीरियं पुरिसगारपरक्कमं उवदंसेमाणे देवे विज्जुतारं करेजा । तिहिं ठाणेहिं देवे थणियसद्दं करेज्जा, तंजहा - विकुव्वमाणे, एवं जहा विज्जुतारं तव थणितसद्दं पि । Jain Education International 5 [टी०] अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तः, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह- तारारूवे त्ति तारकमात्रं चलेज्जा स्वस्थानं त्यजेत्, वैक्रियं कुर्वद्वा, परिचारयमाणं वा मैथुनार्थं संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थं चलेदिति, उक्तं च- 15 तत्थ णं जे से वाघाइए अंतरे से जहन्त्रेणं दोन्नि छावट्टे जोयणसए, उक्कोसेणं बारस जोयणसहस्साइं [ जम्बूद्वीपप्र० ७ ३५० ] ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति । For Private & Personal Use Only 10 अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तानि, अथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह– तिहीत्यादि, कण्ठ्यम्, नवरं विज्जुयारं ति विद्युत् तडित् 20 सैव क्रियत इति कारः कार्यम्, विद्युतो वा करणं कारः क्रिया विद्युत्कारः, तम्, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दर्पोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलन- विद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, ऋद्धिं विमानपरिवारादिकां द्युतिं शरीराभरणादीनां यशः प्रख्यातिं बलं शारीरं वीर्यं जीवप्रभवम्, पुरुषकारश्च अभिमानविशेषः, स एव निष्पादितस्वविषयः पराक्रमश्चेति 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy