________________
१९४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानीं स्त्री-पुरुष-नपुंसकानां तदाहतिविहेत्यादि नवसूत्री सुगमा, नवरं खहं ति प्राकृतत्वेन खम् आकाशमिति । कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिः भरतादिका पञ्चदशधा, तत्र जाताः कर्मभूमिजा:, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे 5 मध्ये समुद्रस्य द्वीपा ये ते तथा, तेषु जाता आन्तरद्वीप्यस्ता एवाऽऽन्तरद्वीपिकाः ।
विशेषत्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह- तिविहेत्यादि कण्ठ्यम् ।
[सू० १४०] नेरइयाणं तओ लेस्सातो पन्नत्ताओ, तंजहा-कण्हलेसा, नीललेसा, काउलेसा। असुरकुमाराणं ततो लेस्साओ संकिलिट्ठाओ पन्नत्ताओ,
तंजहा-कण्हलेसा, नीललेसा, काउलेसा, एवं जाव थणियकुमाराणं, एवं 10 पुढविकाइयाणं, आउ-वणस्सतिकाइयाण वि । तेउकाइयाणं वाउकाइयाणं
बेइंदियाणं तेइंदियाणं चउरिंदियाणं तओ लेस्सा जधा नेरइयाणं । पंचेंदियतिरिक्खजोणियाणं तओ लेस्साओ संकिलिट्ठाओ पन्नत्ताओ, तंजहाकण्हलेसा, नीललेसा, काउलेसा । पंचेंदियतिरिक्खजोणियाणं तओ लेसाओ
असंकिलिट्ठाओ पन्नत्ताओ, तंजहा-तेउलेसा, पम्हलेसा, सुक्कलेसा, एवं 15 मणुस्साण वि । वाणमंतराणं जधा असुरकुमाराणं । वेमाणियाणं तओ लेस्साओ पन्नत्ताओ, तंजहा-तेउलेसा, पम्हलेसा, सुक्कलेसा ।
[टी०] स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्या: त्रिस्थानकावतारेण निरूपयन्नाह- नेरइयाणमित्यादि
दण्डकसूत्रं कण्ठ्यम्, नवरं नेरइयाणं तओ लेस्साओ त्ति एतासामेव तिसृणां 20 सद्भावादविशेषणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् संक्लिष्टा इति विशेषितम्,
चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह- एवं पुढवीत्यादि, पृथिव्यब्वनस्पतिषु देवोत्पादसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः । तेजो-वायु-द्वि-त्रि-चतुरिन्द्रियेषु
तु देवानुत्पत्त्या तदभावान्निर्विशेषण इत्यत एवाह- तओ इत्यादि । पञ्चेन्द्रियतिरश्चां 25 मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणतश्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org