________________
[सू० १३७]
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१९१
तओ पुरिसज्जाता पन्नत्ता, तंजहा - वेदपुरिसे, चिंधपुरिसे, अभिलावपुरिसे ३ | तिविहा पुरिसा पन्नत्ता, तंजहा - उत्तमपुरिसा, मज्झिमपुरिसा, जहन्नपुरिसा ४ | [१] उत्तमपुरिसा तिविहा पन्नत्ता, तंजहा - धम्मपुरिसा, भोगपुरिसा, कम्मपुरिसा । धम्मपुरिसा अरहंता, भोगपुरिसा चक्कवट्टी, कम्मपुरिसा वासुदेवा ५।
[२] मज्झिमपुरिसा तिविधा पन्नत्ता, तंजहा - उग्गा, भोगा, राइन्ना ६ | [३] जहन्नपुरिसा तिविहा पन्नत्ता, तंजहा - दासा, भयगा, भातिलगा ७| [टी०] पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दान्तिकानां च पुरुषाणां प्ररूपणार्थमाह- तओ रुक्खेत्यादि सूत्रद्वयम्, पत्राण्युपगच्छति प्राप्नोति पत्रोपगः, एवमितरौ । एवमेवेति दाष्टन्तिकोपनयनार्थः, 10 पुरुषजातानि पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्र विशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तरपुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च ‘पत्तोवग’ इत्यादौ वाच्ये पत्तोवा इत्यादि प्राकृतलक्षणवशादुक्तम्, ‘समाण’ इत्यत्रापि 'सामाण' इति ।
Jain Education International
5
-
For Private & Personal Use Only
अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह - तओ इत्यादि कण्ठ्यम्, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुष: पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽत्रेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्यगाथाआगमओऽणुवउत्तो इयरो दव्वपुरिसो तिहा तइओ ।
एगभवियाइ तिविहो मूलुत्तरनिम्मिओ वा वि ॥ [ विशेषाव० २०९१]
20
मूलगुणनिर्मितः पुरुषप्रायोम्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति । भावपुरुषभेदाः पुनर्ज्ञानपुरुषादयः । ज्ञानलक्षणभावप्रधानः पुरुषो ज्ञानपुरुष:, एवमितरावपि। वेदः पुरुषवेद:, तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्री-पुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति । तथा पुरुषचित्रैः श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषः, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चिह्नयते 25
१. 'त्रापि च सा पा० जे२ ॥
15
www.jainelibrary.org