SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १९० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कायेनाप्ये कः, कथमित्याह- पापानां कर्मणामकरणतया हेतुभूतया, हिंसाद्यकरणेनेत्यर्थः, कायग हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तं च पापजुगुप्सा तु तथा सम्यक् परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमत: ॥ [षोडशक० ४।५] इति । 5 अथवा पापकर्मणामकरणतायै तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे षष्ठी, ततः पापेभ्यः कर्मभ्यो गर्हते, तानि जुगुप्सत इत्यर्थः, किमर्थम् ? अकरणतायै ‘मा कार्षमहमेतानि' इति । दीहं पेगे अद्धं ति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति निरुणद्धि, कया ? पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायै वा तेभ्यो 10 वा गर्हते, कायं वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति । [सू० १३६] तिविहे पच्चक्खाणे पन्नत्ते, तंजहा-मणसा वेगे पच्चक्खाति, वयसा वेगे पच्चक्खाति, कायसा वेगे पच्चक्खाति । एवं जधा गरहा तधा पच्चक्खाणे वि दो आलावगा भाणितव्वा । [टी०] अतीते दण्डे गर्दा भवति, सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन 15 तदाह तिविहेत्यादि गतार्थम्, नवरं गरिह त्ति गर्हायाम्, आलापकौ चेमौ ‘मणसे'त्यादिः 'कायसा वेगे पच्चक्खाइ पावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, ‘अहवा पच्चक्खाणे तिविहे पं० तं०-दीहं पेगे अद्धं पच्चक्खाइ, रहस्सं पेगे अद्धं पच्चक्खाइ, कायं पेगे पडिसाहरति पावाणं कम्माणं अकरणयाए' इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय अथवा कायं प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति। 20 [सू० १३७] ततो रुक्खा पन्नत्ता, तंजहा-पत्तोवते, पुप्फोवते, फलोवते १॥ एवामेव ततो पुरिसज्जाता पन्नत्ता, तंजहा-पत्तो वारुक्खसामाणे, पुप्फोवारुक्खसामाणे, फलोवारुक्खसामाणे २।। ततो पुरिसज्जाता पन्नत्ता, तंजहा-नामपुरिसे, ठवणपुरिसे, दव्वपुरिसे १॥ ततो पुरिसज्जाया पन्नत्ता, तंजहा-नाणपुरिसे, दंसणपुरिसे, चरित्तपुरिसे २। १. दीर्घकालं जे१,२, पा० ।। २. 'त्यादि जे१ खं० ॥ ३. हस्सं पा० जे२ । हस्सं खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy