________________
5
[सू० १३५] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१८९ [टी०] प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह- तओ इत्यादि कण्ठ्यम् । नवरं गोपनं गुप्ति: मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्त्तनमिति, आह चमणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेऊहिं । पवियारेयररूवा णिद्दिट्ठाओ जओ भणियं ॥ समिओ णियमा गुत्तो गुत्तो समियत्तणम्मि भइयव्वो । कुसलवइमुरेतो जं वइगुत्तो वि समिओ वि ॥ .
[निशीथभा० ३७, बृहत्कल्प० ४४५१, उपदेशपद ६०४-५] त्ति । एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानाम्, न तु नारकादीनामित्यत आह– संजयमणुस्साणमित्यादि कण्ठ्यम् । __ उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह- तओ इत्यादि कण्ठ्यम् । 10 विशेषतश्चतुर्विंशतिदण्डके एता अतिदिशन्नाह- एवमित्यादि, एवमिति सामान्यसूत्रवन्नारकादीनां तिस्रोऽगुप्तयो वाच्याः, शेष कण्ठ्यम्, नवरमिहैकेन्द्रियविकलेन्द्रिया नोक्ताः, वाङ्-मनसयोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषां गुप्तिप्रतिपादनादिति ।
अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह- तओ दण्डेत्यादि 15 कण्ठ्यम्, नवरं मनसा दण्डनमात्मनः परेषां चेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डः, मन एव दण्डो मनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशतिदण्डके नेरइयाणं तओ दंडा इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यम्, नवरं विगलिंदियवज्जं ति एक-द्वि-त्रि-चतुरिन्द्रियान् वर्जयित्वेत्यर्थः, तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाङ्-मनसयोरभावादिति ।
20 [सू० १३५] तिविहा गरहा पन्नत्ता, तंजहा-मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए ।
अहवा गरहा तिविहा पन्नत्ता, तंजहा-दीहं पेगे अद्धं गरहति, रहस्सं पेगे अद्धं गरहति, कायं पेगे पडिसाहरति पावाणं कम्माणं अकरणयाए ।
[टी०] दण्डश्च गर्हणीयो भवतीति गहाँ सूत्राभ्यामाह- तिविहेत्यादि सूत्रद्वयं गतार्थम्, 25 गर्हते जुगुप्सते दण्डं स्वकीयं परकीयम् आत्मानं वा कायसा वि त्ति सकारस्यागमिकत्वात्
१. मनसोस्तेषां पा० जे२ ।। २. मनसोरभा जे१ पा० जे२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org