SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 5 [सू० १३३] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । १८७ तिहीत्यादि प्राग्वदवसेयम्, नवरं दीहाउयत्ताए त्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यम्, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्तं च महवय अणुव्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ सम्मट्ठिी य जो जीवो ॥ [बन्धशतक० २३] तथा - पयईए तणुकसाओ दाणरओ सील-संजमविहूणो । ___मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ [बन्धशतक० २२] देव-मनुष्यायुषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तम्- समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएसणिज्जेणं असण ४ पडिलाभेमाणस्स किं कज्जइ?, गोयमा !, एगंतसो निज्जरा कज्जइ, णो से केइ पावे कम्मे कज्जइ [भगवती० ८।६।१] इति, यच्च निर्जराकारणं तच्छुभदीर्घायु:कारणतया न विरुद्धम्, महाव्रतवदिति । अनन्तरमायुषो दीर्घ ताकारणान्युक्तानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह- तिहीत्यादि प्राग्वत्, नवरम् अशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः, तथाहि- अशुभं च तत् पापप्रकृतिरूपत्वात् दीर्घ च तस्य जघन्यतोऽपि दशवर्षसहस्र स्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घम्, तदेवंभूतमायुः जीवितं यस्मात् कर्मणस्तदशुभदीर्घायुः, तद्भावस्तत्ता, 15 तस्यै तया वेति, प्राणान् प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमण-माहनादीनां हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलनं तु जात्याधुघट्टनतः, निन्दनं मनसा, खिंसनं जनसमक्षम्, गर्हणं तत्समक्षम्, अपमाननमनभ्युत्थानादिभिः, अन्यतरेण बहूनां मध्ये एकतरेण, क्वचित्त्वन्यतरेणेति न दृश्यते, अमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाऽप्रीतिकारकेण, 20 भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद्, आर्यचन्दनाया इव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोनषाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरौ सम्पन्नौ, केशाः पूर्ववदेव जाताः, पञ्चवर्णविविधरत्नराशिभिर्गेहं भृतम्, सेन्द्रदेव-दानव-नरनायकै रभिनन्दिता काले नावाप्तचरित्रा च सिद्धिसौधशिखरमुपगते ति, इह च सूत्रेऽशनादि 25 प्रासुकाप्रासुकत्वादिना न विशेषितम्, हीलनादिकर्तुः प्रासुकादिविशेषणस्य फलविशेष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy