SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति ॥ [षोडशक० ६।१४] तथा भण्णइ जिणपूयाए कायवहो जइ वि होइ उ कहिंचि । 5 तह वि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥ असदारंभपवत्ता जं च गिही तेण तेसिं विन्नेया । तन्निव्वित्तिफलच्चिय एसा परिभावणीयमिदं ॥ [पञ्चाशक० ४।४२-४३] ति । दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासकाः संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति, यथोक्तम्10 संविग्गभावियाणं लोद्धयदिटुंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धञ्छं ॥ [निशीथभा० १६४९] ति । तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदम् संथरणम्मि असुद्धं दोण्ह वि गेण्हन्त-देंतयाणऽहियं । ___ 15 आउरदिटुंतेणं तं चेव हितं असंथरणे ॥ [निशीथभा० १६५०] इति । तथा णायागयाणं कप्पणिज्जाणं अन्न-पाणाईणं दव्वाणं देस-काल-सद्धा-सक्कार-कमजुयं [आव० सू० ६] इत्यादि । क्वचित् पाणे अतिवायित्ता मुसं वयित्तेत्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्याख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलम्भ्य 20 अल्पायुष्टया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भनस्थानकस्यैवेतरे विशेषणे, तथाहि- प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा 'अहो साधो ! स्वार्थसिद्धमिदं भक्तादि कल्पनीयं वा, न शङ्का कार्या' इत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन एकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति । 25 अल्पायुष्कताकारणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह १. 'लभ्य पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy