________________
___10
[सू० १३२] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१८१ ___ स च द्विधा सकरणोऽकरणश्च, तत्रालेश्यस्य केवलिनः कृत्स्नयोर्जेय-दृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या। युज्यते जीवः कर्मभिर्येन कम्मं जोगनिमित्तं बज्झइ [उपदेशपद० ४७१] त्ति वचनात् युङ्क्ते वा प्रयुङ्क्ते यं पर्यायं स योगो वीर्यान्तरायक्षय-क्षयोपशमजनितो 5 जीवपरिणामविशेष इति, आह च
मणसा वयसा काएण वा वि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ । तेओजोगेण जहा रत्तत्ताई घडस्स परिणामो । जीवकरणप्पओगे विरियमवि तहप्पपरिणामो ॥ [ ] त्ति ।
मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स च चतुर्विधः सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यमृषामनोयोगश्चेति, मनसो वा योगः करण-कारणा-ऽनुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः औदारिकौ १ दारिकमिश्र २ वैक्रिय ३ वैक्रियमिश्रा ४ ऽऽहारका ५ ऽऽहारकमिश्र ६ कार्मणकाययोग ७ भेदादिति, 15 तत्रौदारिकादयः शुद्धाः सुबोधाः, औदारिकमिश्रस्तु औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दधि न गुडतया नापि दधितया व्यपदिश्यते तत्त्वाभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्रं कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रिया-ऽऽहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवम्- औदारिकाद्याः शुद्धास्तत्पर्याप्तकस्य 20 मिश्रास्त्वपर्याप्तकस्येति, तत्रोत्पत्तावौदारिककायः कार्मणेन, औदारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले वैक्रिया-ऽऽहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्तौ कार्मणेन, कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते वेति, सर्व एवायं योगः पञ्चदशधेति, सङ्ग्रहोऽस्य- 25 १. “कम्मं जोगनिमित्तं बज्झइ बंधट्ठिति कसायवसा। सुहजोयम्मी अकसायभावओऽवेइ तं खिप्पं ।।४७१॥” इति संपूर्णा गाथा । २. तत्ताभ्या पा० जे२ ॥ ३. परिशिष्टे टिप्पनेषु द्रष्टव्यम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org