SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे टी०] परिचारणेति मैथुनविशेष उक्तः, अधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाहतिविहे मेहुणे इत्यादि कण्ठ्यम्, नवरं मिथुनं स्त्रीपुंसयुग्मम्, तत्कर्म मैथुनम्, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् । मिथुनकर्मण एव कारकानाहतओ इत्यादि कण्ठ्यम् । तेषामेव भेदानाह- तओ मेहुणमित्यादि कण्ठ्यम्,नवरं 5 स्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः योनि १ मुंदुत्व २ मस्थैर्य ३ मुग्धता ४ क्लीबता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ मेहनं १ खरता २ दाढय ३ शौण्डीर्यं ४ श्मश्रु ५ धृष्टता ६ । स्त्रीकामितेति ७ लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ 10 स्तनादि-श्मश्रु-केशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ [ ] तथाऽन्यत्राप्युक्तम्स्तन-केशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तदभावे नपुंसकम् ॥ [ ] इत्यादि । ___ 15 [सू० १३२] तिविहे जोगे पन्नत्ते, तंजहा-मणजोगे, वतिजोगे, कायजोगे। एवं णेरझ्याईणं विगलिंदियवजाणं जाव वेमाणियाणं । तिविहे पओगे पन्नत्ते, तंजहा-मणपओगे, वतिपओगे, कायपओगे। जहा जोगो विगलिंदियवज्जाणं तधा पओगो वि । तिविहे करणे पन्नत्ते, तंजहा-मणकरणे, वतिकरणे, कायकरणे । एवं 20 विगलिंदियवजं जाव वेमाणियाणं । तिविहे करणे पन्नत्ते, तंजहा-आरंभकरणे, संरंभकरणे, समारंभकरणे । निरंतरं जाव वेमाणियाणं । [टी०] एते च योगवन्तो भवन्तीति योगप्ररूपणायाह- तिविहे जोए इत्यादि, इह वीर्यान्तरायक्षय-क्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य 25 योगः, आह च जोगो वीरियं थामो उच्छाह परक्कमो तहा चेट्ठा । सत्ती सामत्थं ति य जोगस्स हवंति पज्जाया ॥ [पञ्चसं० ३९६] इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy