________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मणो वती चेवं ८ । काओ उराल १ विक्किय २ आहारग ३ मीस ६ कम्मइगो ७ ॥ [
20
१८२
] त्ति ।
सामान्येन योगं प्ररूप्य विशेषतो नारकादिषु चतुर्विंशतौ पदेषु तमतिदिशन्नाहएवमित्यादि कण्ठ्यम्, नवरमतिप्रसङ्गपरिहारायेदमुक्तं विगलिंदियवज्जाणं ति, तत्र 5 विकलेन्द्रियाः अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वि-त्रि- चतुरिन्द्रियाणां तु काययोग-वाग्योगाविति ।
मनःप्रभृतिसम्बन्धेनैवेदमाह - तिविहे पओगे इत्यादि कण्ठ्यम्, नवरं मनः प्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यद् व्यापारणं प्रयोजनं प्रयोगः, मनसः प्रयोगो मनः प्रयोगः, एवमितरावपि, जहेत्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति । 10 मनःप्रभृतिसम्बन्धेनैवेदमपरमाह-तिविहे करणे इत्यादि कण्ठ्यम्, नवरं क्रियते येन तत् करणं मनआदिक्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा-तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करणं मनःकरणम्, एवम् इतरे अपि, एवमित्याद्यतिदेशसूत्रं पूर्ववदेव भावनीयमिति, अथवा योग- प्रयोग-करणशब्दानां मनः प्रभृतिकमभिधेयतया योग-प्रयोग-करणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया 15 आगमे बहुशः प्रवृत्तिदर्शनात्, तथाहि-- योगः पञ्चदशविधः शतकादिषु व्याख्यातः, प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि
---
कतिविहे णं भंते ! पओगे पन्नत्ते, गोतमा ! पन्नरसविहे [ प्रज्ञापना० १५ । १०६८ ] इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्तः, तथाहि
जुंजणकरणं तिविहं मणवतिकाए य मणसि सच्चाई |
सट्टाणे तेसि भेओ चउ चउहा सत्तहा चेव ॥ [ आव०नि० १०३८ ] त्ति ।
प्रकारान्तरेण करणत्रैविध्यमाह - तिविहे इत्यादि, आरम्भणमारम्भः पृथिव्याद्युपमर्द्दनम्, तस्य कृतिः करणं स एव वा करणमित्यारम्भकरणम्, एवमितरे अपि वाच्ये, नवरमयं विशेष: संरम्भकरणं पृथिव्यादिविषयमेव मनःसङ्क्लेशकरणम्, समारम्भकरणं तेषामेव सन्तापकरणमिति, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org