________________
१७६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दहनाद्यर्थक्रियाप्रसाधकः, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन । नोआगमतो भावेन्द्र इन्द्रनाम-गोत्रे कर्मणी वेदयन् परमैश्वर्यभाजनम्, सर्वनिषेधवचनत्वान्नोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितम्, इन्दनक्रियाया एव विवक्षितत्वात्, अथवा तथाविधज्ञान-क्रियारूपो यः परिणामः स नागम एव केवलो 5 न चानागम इत्यतो मिश्रवचनत्वात् नोशब्दस्य नोआगम इत्याख्यायत इति ।।
ननु नाम-स्थापना-द्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्त्तते, ततश्च क एषां विशेषः ?, आह च
अभिहाणं दव्वत्तं तदत्थसुन्नत्तणं च तुल्लाइं।
को भाववज्जियाणं नामाईणं पइविसेसो ? ॥ [विशेषाव० ५२] इति । 10 अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भतेन्द्राभिप्रायो
भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्त्तन्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात्, न तथा नाम-द्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्थं भेद इति, आह च
आगारोऽभिप्पाओ बुद्धी किरियाफलं च पाएणं । 15 जह दीसइ ठवणिंदे न तहा नामे न दविंदे ॥ [विशेषाव० ५३] इति ।
यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नाम-स्थापनेन्द्रावित्ययं विशेष इति, आह च
भावस्स कारणं जह दव्वं भावो य तस्स पज्जाओ ।
उवओगपरिणतिमओ न तहा नामं न वा ठवणा ॥ [विशेषाव० ५४] इति । 20 उक्ता नाम-स्थापना-द्रव्येन्द्राः, इदानीं भावेन्द्रं त्रिस्थानकावतारेणाह- तओ इंदेत्यादि कण्ठ्यम्, नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः परमेश्वरो ज्ञानेन्द्रः अतिशयवच्छूताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तर: केवली वा, एवं दर्शनेन्द्रः क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो यथाख्यातचारित्रः, एतेषां च भावेन
सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः परमार्थतो 25 वेन्द्रत्वात् सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद् भावेन्द्रताऽवसेयेति ।
१. नोआगमत इत्या' जे१ विना ॥ २. "विसरः जे१, २ । विशरः पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org