________________
१७५
[सू० १२७]
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, तथा यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तच्चोभयातिरिक्तद्रव्येन्द्रः, ज्ञशरीरद्रव्येन्द्रवत् । तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः, भव्यशरीरद्रव्येन्द्रवत्, स चावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनाम-गोत्रश्चेति, तत्र 5 एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको योऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवति, देवकु र्वा दिमिथुनक स्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, स चोत्कर्षतः पूर्वकोटीत्रिभागं यावद्, अस्मात् परतः आयुष्कबन्धाभावात्, तथा अभिमुखे संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहूर्त्तानन्तरभावितया नाम-गोत्रे 10 इन्द्रसम्बन्धिनी यस्य स तथा, तथा भावैश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षया अप्रधानत्वाच्छक्रादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थानकानुरोधान्नोक्तः, तल्लक्षणं चेदम् भावम् इन्दनक्रियानुभवलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः, स चासाविन्द्रश्चेति भावेन्द्रः, यदाह
भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ [ ] स च द्विधा आगमतो नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः। कथमिहेन्द्रोपयोगमात्रात् तन्मयताऽवगम्यते ?, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहन-पचन-प्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादिति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानमवगमो भाव इत्यनर्थान्तरम्, तत्र अर्था-ऽभिधान-प्रत्ययास्तुल्यनामधेया 20 इति सर्ववादिनामविसंवादस्थानम्, यथा- कोऽयम् ?, घटः, किमयमाह ?, घटशब्दम्, किमस्य ज्ञानम् ?, घट इति । अग्निरिति च यत् ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभ्येत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं तत्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञान-सुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव 25
15
१. भवंति जे१ खं० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org