________________
१७४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
तथा- लेप्पगहत्थी हत्थि त्ति एस सब्भाविया भवे ठवणा ।
___ होइ असब्भावे पुण हत्थि त्ति निरागिई अक्खो ॥ [आव०नि० १४४७] त्ति । तथा द्रवति गच्छति तांस्तान् पर्यायान, द्रयते वा तैस्तैः पर्यायैः, द्रोर्वा सत्ताया अवयवो विकारो वा, वर्णादिगुणानां वा द्रावः समूह इति द्रव्यम्, तच्च भूतभावं 5 भाविभावं चेति, आह च
दवए १ दुयए २ दोरवयवो विगारो ३ गुणाण संद्रावो ४ ।
दव्वं भव्वं भावस्स भूयभावं च जं जोगं ॥ [विशेषाव० २८] ति । तथा- भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके ।
तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ॥ [ ] 10 तथा अनुपयोगो द्रव्यमप्रधानं चेति, तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, सच द्विधा आगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य, ज्ञानापेक्षयेत्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः अनुपयोगो द्रव्यम् [अनुयोग०सू०१४] इति वचनात्, अयमेवार्थो मङ्गलमाश्रित्य भाष्य उक्तः, तथाहि
आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । 15 तन्नाणलद्धिजुत्तो वि णोवउत्तो त्ति तो दव्वं ॥ [विशेषाव० २९] ति ।
तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा-ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरं ज्ञशरीरम्, ज्ञशरीरमेव द्रव्येन्द्रः ज्ञशरीरद्रव्येन्द्रः, एतदुक्तं भवति- इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं
तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलातलादिगतमपि घृतघटादिन्यायेन नोआगमतो 20 द्रव्येन्द्र इति, इन्द्रज्ञानशून्यत्वाच्च तस्य इह सर्वनिषेध एव नोशब्दः, तथा भव्यो योग्य
इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरम्, तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थः- भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद् बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत्, उक्तं च मङ्गलमधिकृत्य
मंगलपयत्थजाणयदेहो भव्वस्स वा सजीवो वि ।
णोआगमओ दव्वं आगमरहिओ त्ति जं भणितं ॥ [विशेषाव० ४४] ति । १. सजीवो त्ति पासं० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org