________________
१७३
[सू० १२७]
अथ तृतीयमध्ययनं त्रिस्थानकम् ।
प्रथम उद्देशकः । [सू० १२७] तओ इंदा पण्णत्ता, तंजहा-णामिंदे, ठवणिंदे, दव्विंदे । तओ इंदा पन्नत्ता, तंजहा-णाणिंदे, दंसणिंदे, चरित्तिदे । तओ इंदा पन्नत्ता, तंजहा-देविंदे, असुरिंदे, मणुस्सिंदे।
5 [टी०] द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सङ्ख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्ता अस्याप्यध्ययनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवम्सम्बन्धस्यैतत्प्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतत्प्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यैतदादिसूत्रस्य तओ इंदेत्यादेर्व्याख्या, सा च 10 सुकरैव, नवरमिन्दनाद् ऐश्वर्याद् इन्द्रः, नाम संज्ञा, तदेव यथार्थमिन्द्रत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थं नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिदम्यद्वस्तुनोऽभिधानं १ स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयञ्च २ नाम यादृच्छिकं च ३ तथा ॥ [ ] इति ।
अयमर्थः-यद्वस्त्वित्यादिना यथार्थमिन्द्र इत्याधुक्तम् १, स्थितमित्यादिना त्वयथार्थ गोपालादाविन्द्रेत्यादि २, यादृच्छिकमनर्थकं डित्थादीति ३ । अथवा यदिन्दनाद्यर्थनिरपेक्ष गोपालादिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् गोपालादावन्यत्रार्थे स्थितं नामेति। 20
तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना लेप्यादिकर्म, सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः, अक्षादिन्यासस्त्वितर इति । स्थापनालक्षणमिदम्
यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ [ । इति ।
15
१-२. संबद्धस्यै जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org