________________
[सू० ११८-११९] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
१६७ वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति ।
[सू० ११८] दुविधा आराहणा पन्नत्ता, तंजहा-धम्मिताराहणा चेव केवलिआराहणा चेव।
धम्मियाराहणा दुविहा पन्नत्ता, तंजहा- सुतधम्माराहणा चेव चरित्तधम्माराहणा चेव ।
5 के वलिआराहणा दुविधा पन्नत्ता, तंजहा-अंतकिरिया चेव कप्पविमाणोववत्तिया चेव ।
[टी०] मूर्होपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह- दुविहेत्यादि सूत्रत्रयं कण्ठ्यम्, नवरम् आराधनमाराधना ज्ञानादिवस्तुनोऽनुकू लवर्तित्वम् , निरतिचारज्ञानाद्यासेवेति यावत्, धर्मेण श्रुत-चारित्ररूपेण चरन्तीति धार्मिका: 10 साधवस्तेषामियं धार्मिकी, सा चासावाराधना च धार्मिकाराधना, केवलिनां श्रुताऽवधि-मन: पर्याय-केवलज्ञानिनामियं कैवलिकी, सा चासावाराधना चेति कै वलिकाराधने ति। सुयधम्मेत्यादौ विषयभेदे नाराधनाभेद उक्तः, केवलिआराहणेत्यादौ तु फलभेदेनेति, तत्र अन्तो भवान्तः, तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात्, एषा च 15 क्षायिकज्ञानकेवलिनामेव भवति । तथा कल्पेषु देवलोकेषु, न तु ज्योतिश्चारे, विमानानि देवावासविशेषाः, अथवा कल्पाश्च सौधर्मादयो विमानानि च तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि, तेषूपपत्तिः उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता, परम्परया तु भवान्तक्रियानुपातिन्येवेति ।
20 [सू० ११९] दो तित्थगरा नीलुप्पलसामा वण्णेणं पन्नत्ता, तंजहा-मुणिसुव्वते चेव अरिट्ठनेमी चेव १॥ दो तित्थगरा पियंगुसामा वण्णेणं पन्नत्ता, तंजहा-मल्ली चेव पासे चेव । दो तित्थगरा पउमगोरा वण्णेणं पन्नत्ता, तंजहा-पउमप्पहे चेव वासुपुज्जे चेव ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org