SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १६८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दो तित्थगरा चंदगोरा वण्णेणं पन्नत्ता, तंजहा-चंदप्पभे चेव पुप्फदंते चेव४। _ [टी०] ज्ञानाधाराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यक् कृता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह- दो तित्थयरेत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं पद्मं रक्तोत्पलम्, तद्वद् गौरौ पद्मगौरी, रक्तावित्यर्थः, तथा चन्द्रगौरौ 5 चन्द्रशुभ्रावित्यर्थः, गाथाऽत्र पउमाभ वासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वय-नेमी काला पासो मल्ली पियंगाभा । [आव०नि० ३७६] इति । [सू० १२०] सच्चप्पवायपुव्वस्स णं दुवे वत्थू पन्नत्ता । टी०] तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच्च तीर्थकराः, तीर्थं च प्रवचनमतः 10 प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकावतारायाह- सच्चप्पवायेत्यादि, सद्भयो जीवेभ्यो हितः सत्यः संयमः सत्यवचनं वा, स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षणोद्यते अभिधीयते तत् सत्यप्रवादम्, तच्च तत् पूर्वं च सकलश्रुतात् पूर्वं क्रियमाणत्वादिति सत्यप्रवादपूर्वम्, तच्च षष्ठम्, तत्परिमाणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च तद्विभागविशेषोऽध्ययनादिवदिति । 15 [सू० १२१] पुव्वाभद्दवयाणक्खत्ते दुतारे पन्नत्ते । उत्तराभद्दवयाणक्खत्ते दुतारे पण्णत्ते । एवं पुव्वा फग्गुणी उत्तरा फग्गुणी । [टी०] अनन्तरं षष्ठपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभद्रपदानक्षत्रस्वरूपमाहपुव्वेत्यादि कण्ठ्यं च। नक्षत्रप्रस्तावान्नक्षत्रान्तरस्वरूपं सूत्रत्रयेणाह- उत्तरेत्यादि कण्ठ्यम्। [सू० १२२] अंतो णं मणुस्सखेत्तस्स दो समुद्दा पन्नत्ता, तंजहा-लवणे 20 चेव कालोदे चेव । [टी०] नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह- अंतो णमित्यादि, अन्तः मध्ये मनुष्यक्षेत्रस्य मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेषं कण्ठ्यमिति । [सू० १२३] दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा 25 अहेसत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववन्ना, तंजहा-सुभूमे चेव बंभदत्ते चेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy