________________
१६६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
अद्धायुः कायस्थितिरूपम्, भावना तु प्राग्वत्, भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नामयति तन्नाम, एतत्स्वरूपं च
जह चित्तयरो निउणो अणेगरूवाइं कुणइ रूवाइं ।
सोहणमसोहणाइं चोक्खमचोक्खेहिं वण्णेहिं । 5 तह नाम पि हु कम्मं अणेगरूवाइं कुणइ जीवस्स ।
सोहणमसोहणाइं इट्ठाणिट्ठाई लोयस्स ॥ [प्रथमकर्म० ६७-६८] इति । शुभं तीर्थकरादि, अशुभम् अनादेयत्वादीति । पूज्योऽयमित्यादिव्यपदेशरूपां गां वाचं त्रायत इति गोत्रम्, स्वरूपं चास्येदम्
जह कुंभारो भंडाई कुणइ पुज्जेयराइं लोयस्स । 10 इय गोयं कुणइ जियं लोए पुज्जेयरावत्थं ॥ [ । इति ।
उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतम् । जीवं चार्थसाधनं चाऽन्तरा एति पततीत्यन्तरायम्, इदं चैवम्जह राया दाणाइ ण कुणइ भंडारिए विकूलम्मि ।
एवं जेणं जीवो कम्मं तं अंतरायं ति ॥ [ ] 15 पडुपन्नविणासिए चेव त्ति प्रत्युत्पन्नं वर्तमानलब्धं वस्त्वित्यर्थो विनाशितम्
उपहतं येन तत्तथा, पाठान्तरे प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि, चैव: समुच्चये, इत्येकम्, अन्यच्च पिधत्ते च निरुणद्धि च, आगामिनो लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहं ति, तत्र च लाभमार्गमित्यर्थः । 20 [सू० ११७] दुविहा मुच्छा पन्नत्ता, तंजहा-पेजवत्तिता चेव दोसवत्तिता चेव । पेजवत्तिता मुच्छा दुविहा पन्नत्ता, तंजहा-माया चेव लोभे चेव ।। दोसवत्तिता मुच्छा दुविहा पन्नत्ता, तंजहा-कोधे चेव माणे चेव ।
[टी०] इदं चाष्टविधं कर्म मूर्छाजन्यमिति मूर्छास्वरूपमाह- दुविहेत्यादि सूत्रत्रयं 25 कण्ठ्यम्, नवरं मूर्छा मोहः सदसद्विवेकनाशः, प्रेम रागो वृत्ति: वर्त्तनं रूपं प्रत्ययो
१. स्थितिः । विचि जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org