________________
१६५
[सू० ११६]
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । केवलणाणावरणं १ दंसणछक्कं च मोहबारसगं अनन्तानुबन्ध्यादीत्यर्थः । ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ॥ [बन्धश० ७९] ति । अथवा देशोपघाति-सर्वोपघातिफड्डकापेक्षया देश-सर्वावरणत्वमस्य, यदाहमतिसुयणाणावरणं दसणमोहं च तदुवघाईणि । तप्फड्डगाई दुविहाई देस-सव्वोवघाईणि ॥१॥ सव्वेसु सव्वघाइसु हएसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणंतेहिं ॥२॥ पढमं लहइ नगारं एक्वेक्कं वन्नमेवमन्नं पि । कमसो विसुज्झमाणो लहइ समत्तं नमोक्कारं ॥३॥ विशेषाव० २८९५-२८९७] इति । तथा दर्शनं सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयम्, उक्तं च- 10 दंसणसीले जीवे दंसणघायं करेइ जं कम्मं । तं पडिहारसमाणं दंसणवरणं भवे जीवे ॥ [प्रथमकर्म० १९] इति ।
एवं चेव त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावना तु पूर्ववदिति ।
तथा वेद्यते अनुभूयत इति वेदनीयम्, सातं सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं 15 प्राकृतत्वात्, इतरद् एतद्विपरीतम्, आह च
महुलित्तनिसियकरवालधार जीहाए जारिसं लिहणं । तारिसयं वेयणियं सुहदुहउप्पायगं मुणह ॥ [प्रथमकर्म० २८] इति । मोहयतीति मोहनीयम्, तथाहिजह मज्जपाणमूढो लोए पुरिसो परव्वसो होइ।
____20 तह मोहेण वि मूढो जीवो उ परव्वसो होइ ॥ [प्रथमकर्म० ३४] इति ।
दर्शनं मोहयतीति दर्शनमोहनीयं मिथ्यात्व-मिश्र-सम्यक्त्वभेदम्, चारित्रं सामायिकादि मोहयति यत् कषाय १६ नोकषाय ९ भेदं तत्तथा ।
एति च याति चेत्यायुः, एतद्रूपं चदुक्खं न देइ आउं न वि य सुहं देइ चउसु वि गईसु।। दुक्ख-सुहाणाहारं धरेइ देहट्ठियं जीयं ॥ [प्रथमकर्म० ६३] ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org