________________
१६०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] एते च संसारिणः सिद्धाश्च मरणा-ऽमरणधर्मकाः, अप्रशस्त-प्रशस्तमरणतश्चैते भवन्तीति प्रशस्ता-ऽप्रशस्तमरणनिरूपणाय नवसूत्रीमाह- दो मरणाइमित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण, श्राम्यन्ति तपस्यन्तीति श्रमणास्तेषाम्, ते च शाक्यादयोऽपि स्युः, यथोक्तम्- णिग्गंथ १ सक्क २ तावस ३ 5 गेरुय ४ आजीव ५ पंचहा समणा [पिण्डनि० ४४५] इति, तद्व्यवच्छेदार्थमाह- निर्गता
ग्रन्थाद् बाह्याभ्यन्तरादिति निर्ग्रन्थाः साधवस्तेषां नो नित्यं सदा वर्णिते तांस्तयोः प्रवर्त्तयितुमुपादेयफलतया नाभिहिते, कीर्त्तिते नामतः संशब्दिते उपादेयधिया, बुइयाई ति व्यक्तवाचा उक्ते उपादेयस्वरूपतः, पाठान्तरेण पूजिते वा तत्कारिपूजनतः, प्रशस्ते प्रशंसिते श्लाघिते, शंसु स्तुतौ [पा०धा० ७२८] इति वचनात्, अभ्यनुज्ञाते अनुमते यथा 10 कुरुतेति, वलयमरणे त्ति वलतां संयमान्निवर्तमानानां परीषहादिबाधितत्वात् मरणं
वलन्मरणम्, वसमरणे त्ति इन्द्रियाणां वशम् अधीनतामृतानां गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशार्त्तमरणमिति, आह च
संजमजोगविसन्ना मरंति जे तं वलायमरणं तु ।
इंदियविसयवसगया मरंति जे तं वसटुं तु ॥ [उत्तरा० नि० २१६] इति । 15 एवं णियाणेत्यादि, एवमिति दो मरणाई समणेणमित्याद्यभिलापस्योत्तरसूत्रेष्वपि
सूचनार्थः, ऋद्धि-भोगादिप्रार्थना निदानम्, तत्पूर्वकं मरणं निदानमरणम् । यस्मिन् भवे वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनर्मियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनर-तिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवतीति, उक्तं च
मोत्तुं अकम्मभूमगनर-तिरिए सुरगणे य णेरइए । 20 सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥ [उत्तरा० नि० २२०] इति ।
सत्थोवाडणे त्ति शस्त्रेण क्षुरिकादिना अवपाटनं विदारणं स्वशरीरस्य यस्मिंस्तच्छस्त्रावपाटनम् । कारणे पुणेत्यादि, शीलभङ्गरक्षणादौ, पाठान्तरे तु कारणेन, अप्रतिक्रुष्टे अनिवारिते भगवता, वृक्षशाखादावुद्बद्धत्वाद् विहायसि नभसि भवं
वैहायसम्, प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृधैः स्पृष्टं स्पर्शनं यस्मिंस्तद् 25 गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरि-करभादि
१. बुयाइयाई जे१ खं० ॥ २. वलायमरणेत्ति पा० जे२ । वलयमरणं ति जे१ खं० ॥ ३. °मरणं जे१ पा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org