________________
[सू० ११३]
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
शरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिंस्तद् गृध्रपृष्ठमिति, गाथाऽत्र–
गद्धादिभक्खणं गद्धपट्टमुब्बंधणादि वेहासं ।
एते दोन वि मरणा कारणजाए अणुन्नाया || [ उत्तरा० नि० २२३] इति । अप्रशस्तमरणानन्तरं तत् प्रशस्तं भव्यानां भवतीति तदाह-- दो मरणाइं इत्यादि, पादपो वृक्षः, तस्येव छिन्नपतितस्योपगमनम् अत्यन्तनिश्चेष्टतया व्यवस्थानं यस्मिंस्तत् 5 पादपोपगमनम् भक्तं भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यानं वर्जनं यस्मिंस्तद्भक्तप्रत्याख्यानमिति । णीहारिमं ति यद्वसतेरेकदेशे विधीयते तत् ततः शरीरस्य निर्हरणात् निस्सारणान्निर्हारिमम्, यत् पुनर्गिरिकन्दरादौ तदनिर्हरणादनिर्हारिमम्। णियमं ति विभक्तिपरिणामान्नियमादप्रतिकर्म शरीरप्रतिक्रियावर्जं पादपोपगमनमिति, भवन्ति चात्र गाथाः
सीहाइ अभिभूओ पायवगमणं करेड़ थिरचित्तो ।
आउम्मि पहुप्पंते वियाणिउं नवर गीयत्थो ॥ [ पञ्चव० १६२० ] त्ति ।
इदमस्य व्याघातवदुच्यते, निर्व्याघातं तु यत् सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम्
चत्तारि विचित्ताइं विगतीनिज्जूहियाइं चत्तारि । संवच्छरे य दोन्नि उ एगंतरियं च आयामं ॥
णाइवगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिट्ठे तवोकम्मं ॥
वासं कोडीसहियं आयामं काउ आणुपुवीए । [ आचा० नि० २७१-२-३ ]
संघयणादणुरूवं एत्तो अदाइ नियमेणं ॥ यतः
देहम्मि असं लिहिए सहसा धाऊहिं खिज्जमाणेहिं ।
जायइ अट्टज्झाणं सरीरिणो चरिमकालम्मि ॥ [ पञ्चव० १५७४ - १५७७] किञ्च, भावमवि संलिइ जिणप्पणीएण झाणजोगेणं ।
भूयत्थभावणाहि य परिवहइ बोहिमूलाई ||
भावे भावियप्पा विसेसओ नवर तम्मि कालम्मि ।
पयईए निग्गुणत्तं संसारमहासमुहस्स ॥
१. एता अष्टादशापि गाथाः पञ्चवस्तुके वर्तन्ते । काश्चन आचाराङ्गनिर्युक्तावपि वर्तन्ते ॥
१६१
Jain Education International
For Private & Personal Use Only
1C
15
20
25
www.jainelibrary.org