________________
१५८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अविसेसिया मइ च्चिय सम्मादिट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिट्ठिस्स सुयं पि एमेव ॥ [विशेषाव० ११४] त्ति ।
अज्ञानता च मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि- सन्त्यर्थाः, इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते सन्त 5 एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चिदिति विशेषितव्यं भवति, पररूपेणेत्यर्थः, स तु न सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत् कथञ्चिदिति विशेषणीयम्, यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं शृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि 10 न सन्तीति, तदेवं सदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च
जह दुव्वयणमवयणं कुच्छियसीलं असीलमसतीए । भण्णइ तह णाणं पि हु मिच्छद्दिट्ठिस्स अन्नाणं ॥ [विशेषाव० ५२०] ति ।
तथा मिथ्यादृष्टेरध्यवसायो न ज्ञानम्, भवहेतुत्वात्, मिथ्यात्वादिवत्, तथा 15 यदृच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सत्क्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आह च
सदसदविसेसणाओ भवहेउ-जइच्छओवलंभाओ । णाणफलाभावाओ मिच्छादिट्ठिस्स अन्नाणं ॥ [विशेषाव० ११५] ति ८ ।
उवओगि त्ति, ‘सागारोवउत्ते च्चेय अणगारोवउत्ते. च्चेय' त्ति सहाऽऽकारेण 20 विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारः, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च
जं सामन्नग्गहणं भावाणं नेय कट्ट आगारं ।
अविसेसिऊण अत्थे दंसणमिति वुच्चए समए ॥ [ ] त्ति । 25 तेनोपयुक्ता अनाकारोपयुक्ता इति ९, आहारे त्ति, आहारका ओजो-लोम
१. जइच्छिओ पासं० ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International