________________
१५७
[सू० ११२] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः। परात्मवर्त्तित्वाभ्यां वा स्व-परप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति ।
[सू० ११२] दुविहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-तसा चेव थावरा चेव ।
दुविधा सव्वजीवा पन्नत्ता, तंजहा-सिद्धा चेव असिद्धा चेव । दुविहा 5 सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव -
सिद्ध-सइंदिय-काए, जोगे वेदे कसाय लेसा य । णाणुवओगाहारे, भासग-चरिमे य ससरीरी ॥७॥
टी०] उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह– 10 दुविहेत्यादि कण्ठ्यमिति । ननु संसारिण एव जीवा उतान्येऽपि सन्ति?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह- दुविहा सव्वेत्यादि, कण्ठ्या चेयम्, नवरं सेन्द्रियाः संसारिणः, अनिन्द्रिया: अपर्याप्तक-केवलि-सिद्धाः २ । एवं एस त्ति, एवं सिद्धादिसूत्रोक्त क्र मेण दुविहा सव्वजीवेत्यादिलक्षणेन एषा वक्ष्यमाणा प्रस्तुतसूत्रसङ्ग्रहगाथा स्पर्शनीया अनुसरणीया, एतदनुसारेण त्रयोदशापि 15 सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह- जाव ससरीरी चेव असरीरी चेव त्ति । सिद्ध गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं काए त्ति, कायाः पृथिव्यादयस्तानाश्रित्य सर्वजीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवम्-‘सकायच्चेव अकायच्चेव', सकायाः पृथिव्यादिषड्विधकायविशिष्टाः संसारिणः, अकायास्तद्विलक्षणाः सिद्धाः ३, सयोगा: संसारिणः, अयोगा अयोगिनः सिद्धाश्च ४, वेदे त्ति सवेदाः 20 संसारिणः, अवेदाः अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च ५, कसाय त्ति, सकषायाः सूक्ष्मसम्परायान्ताः, अकषायाः उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, लेसा य त्ति सलेश्याः सयोग्यन्ताः संसारिणः, अलेश्याः अयोगिनः सिद्धाश्च ७, नाणे त्ति ज्ञानिनः सम्यग्दृष्टयोऽज्ञानिनो मिथ्यादृष्टयः, आह च१. दृश्यतां सू० २४९ ।। २. त्ति कषायाः जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org