SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १५६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे जं गाहा, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात् सर्वतो यद्योजनप्रमाणं पल्यं धान्यस्थानविशेषः एकाह एव एकाहिकस्तेन प्ररूढानां वृद्धानाम्, मुण्डिते शिरसि एकनाला यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोटयो विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि, बादरपल्योपमापेक्षया तु 5 कोटय: सङ्ख्याविशेषाः, तासां किं भवेत् ? भरितं भृतम्, कथमित्याहनिरन्तरनिचितं निबिडतया निचयवत् कृतमिति । वास गाहा, एतस्मात् पल्यावर्षशते वर्षशतेऽतिक्रान्ते सति, प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असङ्ख्येयखण्डे चाऽपहते उद्धृते सति यः कालो यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह- उपमा उपमेयः, कस्येत्याह- एकस्य पल्यस्य, इदमुक्तं 10 भवति- स काल एकं पल्योपमं सूक्ष्म व्यावहारिकं चोच्यत इति । एएसिं गाहा, एतेषाम् उक्तरूपाणां सूक्ष्मबादराणां पल्यानां पल्योपमानां कोटीकोटी भवेद् दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत् परिमाणमिति । [सू० १११] दुविहे कोधे पन्नत्ते, तंजहा-आयपतिट्टिते चेव परपइट्ठिए 15 चेव, एवं नेरइयाणं जाव वेमाणियाणं । एवं जाव मिच्छादसणसल्ले । [टी०] एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणायाहदुविहे कोहे इत्यादि । आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति । एवमिति यथा 20 सामान्यतो द्विधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्या दीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्म-परप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकचतुर्विंशतिदण्डकेनाऽध्येतव्यानि, अत एवाह- एवं जाव मिच्छादंसणसल्ले त्ति, एतेषां च मानादीनां स्वविकल्पजात-परजनितत्वाभ्यां स्वात्मवर्त्ति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy