________________
१५५
[सू० ११०] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । इत्यादि । उपमा औपम्यम्, तया निर्वृत्तमौपमिकम् अद्धा कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः, तच्च द्विधा- पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत् पल्यस्तेनोपमा यस्मिंस्तत् पल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत् सागरोपमम्, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपम-सागरोपमरूपमौपमिकं 5 सामान्यत उद्धारा-ऽद्धा-क्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहार-सूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायाम-विष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटिभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येय- 10 भागमात्रसूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत् सूक्ष्ममुद्धारपल्योपमम्, तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीप-समुद्राः परिसङ्ख्यायन्ते, आह चउद्धारसागराणं अड्डाइजाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया ॥ [बृहत्क्षेत्र० १॥३] इति ।
अद्धापल्योपम-सागरोपमे अपि सूक्ष्म-बादरभेदे एवमेव, नवरं वर्षशते वर्षशते वालस्य वालासङ्ख्येयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उध्रियन्ते स कालो व्यावहारिक इति, यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टाश्च अस्पृष्टाश्चोध्रियन्ते स कालः सूक्ष्म इति, एते च प्ररूपणामात्रविषये एव, 20 आभ्यां च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोनिरुपयोगत्वादद्धौपमिकस्यैव चोपयोगित्वाद् अद्धति विशेषणं सूत्रे उपात्तमिति । अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकार:- से किं तमित्यादि, अथ किं तत् पल्योपमं यदद्धौपमिकतया निर्दिष्टमिति प्रश्ने निर्वचनमेतदनुवादेनाह- 25 पलिओवमे त्ति, पल्योपममेवं भवतीति वाक्यशेषः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org