SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे त्वादायैव, तथा सर्वेण सर्वशरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः । [सू० १०९] दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मं लभेजा सवणताते, तंजहा-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा, तंजहा-खतेण चेव उवसमेण चेव । 5 [टी०] अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह- दोहीत्यादि कण्ठ्यम्, नवरं खएण चेव त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्य क्षयेण निर्जरणेन अनुदितस्य चोपशमेन विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् ‘केवलं बोहिं बुज्झेज्जा, मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेज्जा, केवलेणं 10 संजमेणं संजमेज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिबोहियनाणमुप्पाडेज्जा' इत्यादि दृश्यं यावन्मनःपर्यवज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्नोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्व-चारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणा-ऽऽभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयेनाऽतः स एव व्याख्यात 15 इति । [सू० ११०] दुविहे अद्धोवमिए पन्नत्ते, तंजहा-पलिओवमे चेव सागरोवमे चेव । से किं तं पलिओवमे ? पलिओवमे जं जोयणवित्थिनं, पल्लं एगाहियप्परूढाणं । होज निरंतरणिचितं, भरितं वालग्गकोडीणं ॥४॥ वाससते वाससते, एक्कक्के अवहडंमि जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥५॥ एतेसिं पल्लाणं, कोडाकोडी हवेज दसगुणिता । तं सागरोवमस्स उ, एगस्स भवे परीमाणं ॥६॥ [टी०] बोध्याभिनिबोधिकश्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो 25 भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयप्ररूपणामाह- दुविहे अद्धो १. दृश्यतां सू० ५४,५५ ।। २. गाथेयं जम्बूद्वीपप्रज्ञप्तावपि द्वितीये वक्षस्कारे वर्तते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy