________________
[सू० १०८] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
१५३ सिद्धः, वक्ष्यति च- पायणिज्जाणा णिरएसु उववज्जंतीत्यादि यावत् सव्वंगणिज्जाणा सिद्धेसु [सू० ४६१] त्ति । ___ आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते- एवमित्यादि, एवमिति दोहिं ठाणेहीत्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेण वि त्ति सर्वैरपि गेन्दुकगतिकाले शरीरं 5 फुरित्ताणं ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशत: शरीरदेशमित्यर्थः, स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः सर्वं शरीरं स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति । स्फुरणाच्च सात्मकत्वं स्फुटं भवतीत्याह- एवमित्यादि, एवमिति तथैव, देशेन आत्मदेशेन शरीरकं फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ, सर्वेण सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति । अथवा 10 शरीरकं देशतः सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले, सर्वतः सर्वाङ्गनिर्याणप्रस्ताव इति । अथवा फुडित्ता स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन, सर्वतः सर्वविशरणेन देव-दीपादिजीववदिति । शरीरकं सात्मकतया स्फुटीकुर्वंस्तत्संवर्तनमपि कश्चित् करोतीत्याह- एवमित्यादि, एवमिति तथैव संवदृइत्ताणं ति संवर्त्य सङ्कोच्य शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशः 15 सर्वेण सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं शरीरिणमुपचाराद् दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्त्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्त्य हस्तादिसङ्कोचनेन, सर्वतः सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह- एवं निव्वदृइत्ताणं ति, तथैव निवर्त्य 20 जीवप्रदेशेभ्यः शरीरकं पृथक्कृत्वेत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतौ, अथवा देशतः शरीरकं निवर्त्यात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरम् औदारिकादि निवर्त्य, तैजस-कार्मणे १. पञ्चस्थानके सूत्रमेतादृशं वर्तते- पाएहिं णिजायमाणे निरयंगामी भवति, ऊरूहिं णिजायमाणे तिरियगामी भवति, उरेणं निजायमाणे मणुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सव्वंगेहिं निजायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते ॥ २. स्फुटित्वा पा० जे२ ॥ ३. पृथक्कृत्येत्यर्थः पा० जे२ । पृथवीत्येत्यर्थः खं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org