________________
१५०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे घनोदधिः १४, वातस्कन्धाः घनवात-तनुवाता इतरे वा, अवकाशान्तराणि वातस्कन्धानामधस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् १५, वलयानि पृथिवीनां वेष्टनानि घनोदधि-घनवात-तनुवातलक्षणानीति, विग्रहा लोकनाडीवक्राणि, जीवता चैषां पूर्ववत् १६, द्वीपा: समुद्राश्च प्रतीताः १७, वेला 5 समुद्रजलवृद्धिः, वेदिका: प्रतीता: १८, द्वाराणि विजयादीनि, तोरणानि तेष्वेवेति
१९. नैरयिकाः क्लिष्टसत्त्वविशेषास्तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया, तदुत्पत्तिभूमयो नैरयिकावासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विंशतिदण्डकोऽभिधेयः, अत एवाह यावदित्यादि ४३, कल्पा: देवलोकाः,
तदंशाः कल्पविमानावासाः ४४, वर्षाणि भरतादिक्षेत्राणि, वर्षधरपर्वताः हिमवदादयः 10 ४५, कूटानि ‘हिमवत्'कूटादीनि, कूटागाराणि तेष्वेव देवभवनानि ४६, विजया:
चक्रवर्त्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः क्षेमादिकाः ४७, जीवेत्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति ।
येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह- छायेत्यादि सूत्रपञ्चकं गतार्थम, नवरं छाया वृक्षादीनाम्, आतपः आदित्यस्य, दोसिणा ति व त्ति ज्योत्स्ना, अन्धकाराणि 15 तमांसि, अवमानानि क्षेत्रादीनां प्रमाणानि हस्तादीनि, उन्मानानि तुलायाः कर्षादीनि,
अतियानगृहाणि नगरादिप्रवेशे यानि गृहाणि, उद्यानगृहाणि प्रतीतानि, अवलिंबा सणिप्पवाया य रूढितोऽवसेया इति, किमेतत् सर्वमित्याह जीवा इति च, जीवव्याप्तत्वात् तदाश्रितत्वाद्वा, अजीवा इति च पुद्गलाद्यजीवरूपत्वात् तदाश्रितत्वाद्वेति, प्रोच्यते जिनैः प्ररूप्यत इति । इह च जीवा इ येत्यादि 20 सूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति ।
अथ समयादिवस्तु जीवा-ऽजीवरूपमेव कस्मादभिधीयते ?, उच्यते, तद्विलक्षणराश्यन्तराभावाद्, अत एवाह- दो रासीत्यादि कण्ठ्यम् ।
- [सू० १०७] दुविहे बंधे पन्नत्ते, तंजहा-पेजबंधे चेव दोसबंधे चेव । जीवा णं दोहिं ठाणेहिं पावं कम्मं बंधंति, तंजहा-रागेण चेव दोसेण चेव। 25 जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तंजहा-अब्भोवगमिताते चेव
१. प्रोच्यते निरूप्यते जे१ । प्रोच्यते जिनैः रूप्यते खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org