________________
5
[सू० १०७] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः।
१५१ वेयणाते, उवक्कमिताते चेव वेयणाते । एवं वेदेति, एवं णिजरेंति अब्भोवगमिताते चेव वेयणाते, उवक्कमिताते चेव वेयणाते ।
[टी०] जीवराशिश्च द्विधा बद्ध-मुक्तभेदात्, तत्र बद्धानां बन्धनिरूपणायाहदुविहेत्यादि । प्रेम रागो माया-लोभकषायलक्षणः, द्वेषस्तु क्रोध-मानकषायलक्षणः, यदाह
माया लोभकषायश्चेत्येतद् रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनर्वृष इति समासनिर्दिष्टः ॥ [प्रशम० ३२] इति ।
प्रेम्ण: प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकर्मपुद्गलराशेर्बन्धनं जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादनं च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषबन्ध इति, 10 उक्तं हि
जोगा पयडिपदेसं ठितिअणुभागं कसायओ कुणइ [बन्धशतके ९९] त्ति । प्रेम-द्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह- जीवा णमित्यादि । अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते, सामान्येन बन्धो द्वेधा प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य 15 द्रष्टव्यः, यस्तूपशान्तमोह-क्षीणमोह-सयोगिनां स योगप्रत्यय एव, स तु बन्धत्वेन न विवक्षितः, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम्, उक्तं च
अप्पं बायर मउयं बहुं च रुक्खं च सुक्किलं चेव । मंदं महव्वयं ति य सायाबहुलं च तं कम्मं ॥ [ ] ति ।।
20 अल्पं स्थित्या, बादरं परिणामतः, मृदु अनुभवतः, बहु प्रदेशैः, मन्दं लेपतो वालुकावत्, महाव्ययं सर्वापगमात् । एतदेव दर्शयन्नाह- जीवा णमित्यादि, जीवाः सत्त्वाः, णं वाक्यालङ्कारे, द्वाभ्यां स्थानाभ्यां कारणाभ्यां पापम् अशुभमशुभभवनिबन्धनत्वात्, न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभम्, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति स्पृष्टाद्यवस्थं कुर्वन्ति, रागेण चैव द्वेषेण चैव, 25 १. 'भावत: जे२ ॥ २. अशुभभवनि जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org