SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १४८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे च यदा कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरतः किमपि शुक्लं पश्यति तदा ‘किमियं पताका किं वा बलाके'त्येवं प्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति, इह त्वभेदनयाश्रयणाज्जीवा इ येत्याद्युक्तम्, इह च समया-ऽऽवलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् 5 द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति । आणापाण इत्यादि, आनप्राणाविति उच्छ्वास-निःश्वासकालः सङ्ख्यातावलिकाप्रमाणः, आह च हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणु त्ति वुच्चइ ॥ [जम्बूद्वीपप्र० २।१, बृहत्सं० २०७] त्ति । तथा स्तोकाः सप्तोच्छ्वासनिःश्वासप्रमाणाः २, क्षणाः सङ्ख्यातानप्राणलक्षणाः, 10 सप्तस्तोकप्रमाणा लवाः ३, एवमिति यथा प्राक्तने सूत्रत्रये ‘जीवा इति च अजीवा इति च प्रोच्यते' इत्यधीतमेवं सर्वेषूत्तरसूत्रेष्वित्यर्थः, मुहूर्ताः सप्तसप्ततिलवप्रमाणाः, उक्तं च सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए । 15 तिण्णि सहस्सा सत्त य सयाणि तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनाणीहिं॥ [जम्बू० २।२-३,बृहत्सं० २०८-२०९] ति। अहोरात्रा: त्रिंशन्मुहूर्त्तप्रमाणाः ४, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः ५, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि ६, संवत्सरा अयनद्वयमानाः, युगानि पञ्च संवत्सराणि ७, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि 20 चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम् पुव्वस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ [बृहत्सं० ३१६] ति ७०५६०००००००००० । पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य 25 चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy