SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ___ १४७ [सू० १०६] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । ४६, विजया ति वा रायहाणी ति वा ४७, जीवा ति या अजीवा ति या पवुच्चति । छाया ति वा आतवा ति वा १, दोसिणा ति वा अंधगारा ति वा २, ओमाणा ति वा उम्माणा ति वा ३, अइयाणगिहा ति वा उज्जाणगिहा ति वा ४, अवलिंबा ति वा सणिप्पवाता ति वा ५, जीवा ति या अजीवा 5 ति या पवुच्चइ । दो रासी पन्नत्ता, तंजहा-जीवरासी चेव अजीवरासी चेव । [टी०] उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य च जीवा-ऽजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहाऽयं सम्बन्धः- पूर्वस्मिन् हि पुद्गल-जीवधर्मा उक्ताः, इह तु सर्वं जीवा-ऽजीवात्मकमिति वाच्यम् । अनेन सम्बन्धेनायातस्याऽस्योद्देशकस्येमानि 10 पञ्चविंशतिरादिसूत्राणि समयेत्यादीनि । एषां चानन्तरसूत्रेणायमभिसम्बन्धः- पूर्वत्र जीवविशेषाणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिः स्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदायुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् 15 बहुवचनमित्याह- समया इ वा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत् कालवस्तु तदविगानेन जीवा इति च, जीवपर्यायत्वात्, पर्याय-पर्यायिणोश्च कथञ्चिदभेदात्, तथा अजीवानां पुद्गलादीनां पर्यायत्वादजीवा इति च, चकारौ 20 समुच्चयार्थों, दीर्घता च प्राकृतत्वात्, प्रोच्यते अभिधीयत इति, न जीवादिव्यतिरेकिण: समयादयः, तथाहि- जीवाजीवानां सादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदाः समयादयः सा च तद्धर्मः, धर्मश्च धर्मिणो नात्यन्तं भेदवान्, अत्यन्तं भेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, दृश्यते १. यादि स्थिति' खं० ॥ २. नात्यन्तभेद' पा० जे२ ॥ ३. अत्यन्तभेदे जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy