________________
१४१
[सू० १०४
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । तन्निवासिस्वाति-प्रभासा-ऽरुण-पद्मनामदेवानां द्वयेन द्वयेन सहिताः क्रमेण द्वौ द्वावुक्ताः। दो मालवंत त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वर्त्तिनौ गजदन्तकौ स्तः, ततो भद्रशालवनतद्वेदिका-विजयेभ्यः परौ शीतोत्तरकूलवर्त्तिनौ दक्षिणोत्तरायतौ चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यौ पुनस्तथैवान्याविति । पुनः पूर्ववनमुखवेदिका-विजयाभ्यामर्वाक् शीतादक्षिणकूलवर्तीनि तथैव त्रिकूटादीनां चत्वारि 5 द्वयानि, ततः सौमनसौ देवकुरुपूर्वदिग्वर्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भागवर्त्तिनौ विद्युत्प्रभौ, ततो भद्रशालवन-तद्वेदिका-विजयेभ्यः परतः तथैवाङ्कावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकू लवर्ती नि, पुनरन्यानि पश्चिमवनमुखवेदिका-ऽन्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनां चत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य 10 पूवार्द्ध पश्चिमार्द्ध च भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकीखण्डविभागकारिणाविति । दो चुल्लहिमवंतकूडा इत्यादि, हिमवदादयः षड् वर्षधरपर्वताः, तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एव एकैकशो द्वे द्वे स्यातामिति । वर्षधराणां द्विगुणत्वात् पद्मादिह दा अपि द्विगुणास्तद्देव्योऽप्येवमिति। चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चार्द्धापेक्षया द्विगुणत्वात् 15 तत्प्रपातहूदा अपि द्वौ द्वौ स्युरित्याह-दो गंगप्पवायदहेत्यादि । दो रोहियाओ इत्यादौ नद्यधिकारे गङ्गादीनां सदपि द्वित्वं नोक्तम्, जम्बूद्वीपप्रकरणोक्तस्य- महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती [सू० ८९] त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हि रोहिदादय एवाष्टौ श्रूयन्त इति, चित्रकूट-पद्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवद्वर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डादक्षिणतोरणविनिर्गताऽष्टाविंशति- 20 नदीसहस्रपरिवारा शीताभिगामिनी सुकच्छ-महाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोगं द्वयोर्द्वयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाऽप्यन्तरनद्यो योज्याः, तद्वित्वं च पूर्ववदिति, पङ्कवतीत्यत्र वेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च दृश्यते इति ।
25 १. नाभदे जे१ ॥ २. यदहे जे२ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org