________________
१४०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
वासहरकुरुसु दहा वर्षधरेषु कुरुषु च ये हृदा इत्यर्थः नदीण कुंडाई तेसु जे दीवा । उव्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा ॥ [बृहत्क्षेत्र० ३।३९] जम्बूद्वीपकापेक्षयेति । कियदूरं जम्बूद्वीपप्रकरणं धातकीखण्डपूर्वार्द्धाभिलापेन वाच्यमित्याह- जाव दोसु वासेसु मणुयेत्यादि, एतस्माद्धि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां 5 सूत्राण्यधीतानि तानि च धातकीखण्ड-पुष्करार्द्धपूर्वार्द्धादिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य, धातकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह चदो चंदा इह दीवे चत्तारि य सायरे लवणतोए ।
धायइसंडे दीवे बारस चंदा य सूरा य ॥ [बृहत्क्षेत्र० ५।७२, बृहत्संग्र० ६४] इति 10 चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्वं न स्यात् ततो द्विस्थानकेऽनवतार इति ।।
जम्बूद्वीपप्रकरणादस्य विशेषं दर्शयन्नाह- णवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, कुरुसूत्रानन्तरं तत्र कूडसामली चेव जंबू चेव सुदंसणेति उक्तमिह तु जम्बूस्थाने धायइरुक्खे चेव त्ति वक्तव्यम्, प्रमाणं च तयोर्जम्बूद्वीपकशाल्मल्यादिवत्,
तयोरेव देवसूत्रे ‘अणाढिए चेव जंबूदीवाहिवई त्यत्र वक्तव्ये सुदंसणे चेव तीह 15 वक्तव्यमिति ।
धायइसंडे दीवे इत्यादि पश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसतव्यम्, अत एवाहजाव छव्विहं पि कालमित्यादि, विशेषमाह- णवरं कूडसामलीत्यादि, धातकीखण्डपूर्वार्दोत्तरकुरुषु धातकीवृक्ष उक्त इह तु महाधातकीवृक्षोऽध्येतव्यः,
देवसूत्रे द्वितीयः सुदर्शनस्तत्राधीतः इह तु प्रियदर्शनोऽध्येतव्य इति । 20 पूवार्द्ध-पश्चिमार्द्धमीलनेन धातकीखण्डद्वीपं सम्पूर्णमाश्रित्य द्विस्थानकं धायइसंडे
णमित्यादिनाह, द्वे भरते पूर्वार्द्ध-पश्चिमार्द्धयोर्दक्षिणदिग्भागे तयोर्भावादित्येवं सर्वत्र, भरतादीनां स्वरूपं प्रागुक्तम्, दो देवकुरुमहद्दुम त्ति द्वौ कूटशाल्मलीवृक्षावित्यर्थः, द्वौ तद्वासिदेवौ वेणुदेवावित्यर्थः, दो उत्तरकुरुमहद्दुम त्ति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवौ सुदर्शन-प्रियदर्शनाविति । चुल्लहिमवदादयः षड् 25 वर्षधरपर्वताः शब्दापाति-विकटापाति-गन्धापाति-मालवत्पर्यायाख्या वृत्तवैताढ्याश्च
१. दीवेत्यादि खं० पा० जे२ ॥ २. पश्चार्ध खं० पा० जे२ ॥ ३. ख्यवृत्त' खं० पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org